SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ युक्त्यनुशासनं । ____अनात्मनानात्मगतेरयुक्तिः, इति । अनात्मना निःस्वभावेन सांठतेनासाधनव्यावृत्तिमात्ररूपेण साधनेन साध्यस्थापि तथाविधस्यानात्मनो या गतिः प्रतिपत्तिस्तस्याः सर्वथाप्ययुक्तिरयोग एव । अत्र परिहारमाशंक्य निराकुर्वन्ति वस्तुन्ययुक्तर्यदि पक्षसिद्धिः। अवस्त्वयुक्तः प्रतिपक्षसिद्धिः, इति । वस्तुनि संविद्वैतरूपे साधनेनानात्मना साध्यस्यानात्मनो गतेग्युक्तेः पक्षसिद्धरेवं संविदद्वैतवादिनः साध्यसाधनभावशून्यस्य संवेदनमात्रस्य पक्षत्वात्सिद्धं नस्तस्वमिति यदि मन्यते परस्तदाप्यवस्तुनि विकल्पिताकारे साध्यसाधनयोरयुक्तेः प्रतिपक्षस्य द्वैतस्य सिद्धिः स्यात् । न झवस्तु साधनं साधयति साध्यमद्वैततत्त्वमतिप्रसंगात् । साधनाद्विना स्वत एव संविदद्वैतसाध्यसिद्धिरिति परमतमपाकुर्वन्ति न च स्वयं साधनरिक्तासिद्धिः ॥५॥ - साधनेन रिक्ता शुन्या सिद्धिः स्वयं संविदद्वैतस्य न युज्यते, पुरुषाद्वैतस्यापि स्वयं सिद्धिप्रसंगात् कस्यचित्तत्र विपतिपत्यभावप्रसंगा। तदेवम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy