________________
टोकासहित ।
सामान्यस्याप्यनात्मत्वमित्यनात्मनोर्व्यक्तिसामान्ययोरनन्यत्वं केति योजनीयं । न च तद् द्विष्ठमनन्यत्वमस्तीति कानन्यत्वं । एतेनोभयमपि निरस्तमुभयदोषानुषंगात् । ननु च वस्तुभूतस्य सामान्य स्थानभ्युपगमादवस्तुन एव सामान्यस्यान्यापोहलक्षणस्येष्टत्वात्तस्य चान्यत्वानन्यत्वादिविकल्पशून्यत्वं खरविषाणवदिति चेत्, तर्हि तस्मिन्नवस्तुनि सामान्ये क खलु प्रमाणं संप्रवर्त्तेत नैव किंचित्प्रमाणं स्यात् तस्यामेयत्वादन्यापोहस्य सर्वप्रमाणातिक्रान्तत्वात् । तथाहि न तावत्प्रत्यक्षमवस्तुनि मवर्त्तते तस्य वस्तुविषयत्वात् । नाप्यनुमानं लिंगाभावात् । न हि तत्र स्वभावलिंगं निःस्वभावस्यावस्तुनः स्वभावविरोधात्, स्वभावस्य कस्यचित्सद्भावे वस्तुत्वप्रसंगात् । नाऽपि कार्यलिंग सकलकार्यशून्यत्वादवस्तुनः कस्यचित्कार्यस्य भवे तस्यावस्तुत्वविरोधात् । तत्रानुपलंभो लिंगमिति चेत्, सोऽपि कचिदग्नौ तदन्यस्यानग्नेरभावो ह्यन्यापोहः सामान्यं, तस्य चानग्नेः कस्यचिदेवोपलब्धिलक्षणप्राप्तस्य जलादेरनुपलभः स्यात्सर्वस्य वा १ प्रथमविकल्पेन सर्वस्पादनग्नेरपोहः सिध्येत् । द्वितीयविकल्पे देशकालस्वभावविप्रकृष्टस्य द्वीपान्तर रावणपरमाण्वादेरनग्नेरनुपलब्धिलक्षणप्राप्तस्यानुपलभः कथमभावं कचिदग्नौ साधयेदभावव्यवहारं वा स्वाभ्युपगमविरोधादिति, नावस्तु सामान्यं केनचित्प्रमाणेन मेयं, तस्मिंश्वामेये क खलु प्रमाखं प्रवर्त्तते पराभ्युपगतवस्तुभूतसामान्यवदिति न किंचित् सामान्यं परेषां व्यवतिष्ठते प्रमाणाभावात् ।
Jain Education International
For Private & Personal Use Only
ब
T
www.jainelibrary.org