SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ १०० युक्त्यनुशासनं । व्यवच्छिनत्ति न पुनरप्रतियोगिनस्तत्पर्यायसामान्य विशेषान तेषामप्रस्तुतत्वादिति चेत्, नैवं स्याद्वादानुप्रवेशप्रसंगात् । तर्हि द्वितीयकल्पनास्तु सर्व पदमनेवकारमिति वदंतं प्रत्याहुः अनुक्ततुल्यं यदनेवकारं __ व्यावृत्त्यभावानियमद्वयेऽपि । पर्यायभावेऽन्यतराप्रयोग स्तत्सर्वमन्यच्युतमात्महीनम् ॥४२॥ टोका--अस्ति जीव इत्यत्रास्तीति यत्पदमनेवकारं तदनुक्ततुल्यं नास्तित्वव्यवच्छेदाभावान्नास्तित्वस्याप्रतिपादनात् । तथा जीव इति पदमनेवकारमजीवत्वस्यापि तेनाकथनात् । नियमद्वयेऽपि व्यावृत्यभावात् । अस्त्येवेति पूर्वावधारणं, जीव एवे. त्युत्तरावधारणं नियमद्वयं । तस्मिनिष्ठेऽप्येवकाराभावे न्याक्यभावात् प्रतिपक्षनिवृत्यसंभवादित्यर्थः । तथा चास्तिनास्तिपदयोर्जीवाजीवपदयोश्च पर्यायभावः स्याटकुटशब्दवत् अस्ती. सिपदेन नास्तित्वस्यापि प्रतिपादनानास्तीतिपदेन चास्तित्वस्यापि प्रतिपादनात् । तथा जीवपदेनाजीवार्थस्यापि वचनात,श्रजीवपदेनापि जीवार्थस्यापीति, पर्यायभावे च परस्परमतियोगिपदयोरपि सकलजनस्यान्यतराप्रयोगः स्यात् घरकुटपदवदेव, तदन्यतराप्रयोगे च सर्वमभिधेयं वस्तुजातमन्येन प्रतियोगिना च्युतं त्यक्तं स्यादस्तित्वं नास्तित्वरहितं भवेदिति सत्ताद्वैतमापत्र । नास्तित्वाभावे च सत्ताद्वैतमात्महीनं प्रसज्येत, पररूपापोहना Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy