SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ टोकासहितं । अथाऽस्ति जीव इत्यत्राऽस्त्येव जीव इत्यवधार्यते का नवेति प्रथमकल्पनायां दूषणमावेदयंति सूरयःयदेवकारोपहितं पदं त दस्वार्थतः स्वार्थमवच्छिनत्ति। पर्यायसामान्यविशेषसर्वं, पदार्थहानिश्च विरोधिवत्स्यात् ॥४१॥ टीका-एक्कारेणावधारणार्थेन निपातेनोपहितं विशिष्टं यत्पदं तत्स्वार्थमस्वार्थाद् व्यवच्छिनत्ति यथा तथा स्वार्थपर्यायान् व्यवच्छिनत्येव । तद्यथा-जीव एवेति पदस्य जीवत्वं स्वार्थस्तद्विरोधी चास्वार्थः स्यादजीवत्वं तच्च यथैवजीवत्वं व्यवच्छिनत्ति तथा जीवपर्यायानपि सुखज्ञानादीन् व्यवच्छिनत्येवान्यथा सुखादिपदोपन्यासवैयात् जीवपदेनैव तेषां विषयीकृतत्वात्, तथा चाहं सुखीत्यादिप्रयोगो न भवेत् । सामान्यमपि द्रव्यत्वचेतनत्वादि सर्व व्यवच्छिद्यात अन्यथा द्रव्यमहं चेतनोऽहमिति प्रयोगो विरुध्यते जीवपदेनैव द्रव्यत्वादेरभिधानात् । तथा विशेषानप्यर्थपर्यायाननंतानभिधानाविषयान् व्यवच्छिद्यादन्यथा तद्विषयीकरमाप्रसंगात् । तथा च पर्यायाणां क्रमभुषां धर्माणां सामान्यानां च सहभुवां विशेषाणां चानभिधेयानां व्यवच्छेदे पदार्थस्य जीवपदाभिधेयस्य जीवत्वस्यापि हानिःस्यात्तद्विरोध्यजीवत्ववत् (तेषामभावे प्यजीवत्ववत् ) तेषामभावे तदसंभवात् । प्रतियोगिनमेवाजीवपदं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003148
Book TitleYuktyanushasanam
Original Sutra AuthorN/A
AuthorVidyanandacharya, Indralal Pandit, Shreelal Pandit
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages198
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy