________________
श्रीशांतिनाथविबं कारितं, प्रतिष्ठितं श्री विजयसेनसूरिभिः शुभं भवतु ॥
___ दे० (४०) ८५--स्वस्ति श्री विक्रम नृपात् सं० १२६१ वर्षे--
श्रीषंडेरकगच्छे, महतियशोभद्रसूरिसंताने । श्रीशांतीसूरिरास्ते, तच्चरणांभोजयुगभृगः ॥१।। वितीर्णधनसंचयः क्षतविपक्षलक्षाग्रणी:, कृतोरुगुरुरैवतप्रमुखतीर्थयात्रोत्सवः ॥ दधत् क्षितिभृतां मुदे विशदधी: सदुःसाधता,---
मभूदुदयसंज्ञया त्रिविधवीरचूडामणिः ।।२।। तदंगजन्मास्ति कवींद्रबंधु-मंत्रीयशोवीर इति प्रसिद्धः । ब्राह्मीरमाभ्यां युगपद्गुणोत्थ-विरोधशांत्यर्थमिवाश्रितोय ॥३॥ तेन सुमतिना जिनमत-निपुणेन श्रेयसे पितरकारि ॥ श्री सुमतिनाबिंबं तेन युता देवकुलिकेयं ॥४॥
दे० (४१) ८६--स्वस्ति श्रीविक्रमनृपात् संवत् १२६१ वर्षे---
श्रीषंडेरकगच्छे, महतियशोभद्रसूरिसंताने । श्रीशांतिसूरिरास्ते, तच्चरणांभोजयुगभूगः ॥१॥ वितीर्णधनसंचयः क्षतविपक्षलक्षाग्रणी:, कृतोर गुरुरैवतप्रमुखतीर्थयात्रोत्सवः ।। दधत्क्षिति भृतां मुदे विशदधीः सदुःसाधता--
मभूदुदयसंज्ञया त्रिविधवीरचूडामणिः ।।२।। तदङ गजन्मास्ति कवीन्द्र बंधु-मंत्रीयशोवीर इति प्रसिद्धः। ब्राह्मीरमाभ्यां युगपद्गुणोत्थ-विरोधशांत्यर्थमिवाश्रितो यः ॥३॥
तेन सुमतिना मातुः श्रेयोऽथं कारिता कृतज्ञेन ।
श्री पद्मप्रभबिंबालंकृतसद्देवकुलिकेयं ।।४।। ८७--सं० १४६५ कच्छोलीवालगच्छे, भ० श्री सर्वाणंद सूरयः सपरिवारा: श्री नेमि प्रणमंति ।'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org