________________
३४४
तीर्थयात्राजितं यस्य, यशो जगति गीयते । संशद्यः संवितीर्णोऽपि, संघेशः साधुदेसलः ॥६॥ विमलगिरि-रैवताचल-सत्यपुर-स्तंभनादितीर्थेषु । शिवसत्यंकारसमा-नप्तौ जिनान्कारयामास ॥७॥ स्वकुलोद्धारधौरेय-वर्यस्तुर्यस्ततः परं । पारसस्यांगजो जज्ञे, साधुः कुबधराभिधः ॥८॥ पद्मश्रीः सुषुवे पंच,-पुत्रान् कुलधरप्रिया । परोपकारका नित्यं, नामकर्मयथेंद्रियान् ॥६॥ अनन्दिषुस्तदा ज्येष्ट:(?) सुधीर्नाम्ना प्रभाकरः । अनुजः कर्मणश्चास्य, धर्मकर्मणि कर्मठः ॥१०॥ महीधरस्तृतीयोऽथ, तुर्यो देवकुमारकः ।
... ... ... "लधुः कुलधरांगजः ॥११॥ इतश्च-- एतैर्हसा धरायाः, समेत्य सर्वेपि कुलधरतनूजाः ।
... ... निज भुज जनितेन वित्तेन ॥१२॥ विमलस्य वसहिकाया-मबुंदचूलावचूलकल्पायां । जगतीजिन (सद्म)स्थं, नेमिजिनं कारयानासुः ॥१३।। युग्मम् ।। वादिश्रीधर्मसूरीणां, शिष्यैः पट्टक्रमागतैः । प्रतिष्ठा विहिता चास्य, श्रीमदानन्दसूरिभिः ॥१४॥ विक्रमकाले याते, वर्षे नवशून्यवह्निशशि (श) धरेऽद्य । १३०९ चैत्रासित पंचम्यां, प्रतिष्ठिते नौमि जिनबिंबे ।।१५।।मंगलमस्तु।।
३०-सम्वत् १३५० वर्षे माघ सुदि १ भौमेऽद्येह श्रीमदणहिल्लपाटकाधिष्टि (ष्ठि)त परमेश्वर परमभट्टारकउमापतिवरलब्धप्रौढप्रतावा (पा) क्रांतदि (*) क्चक्रवा (बा) लक्ष्मापाल मालवेशवि (व) रुथ (थि) नीगजघटाकुंभस्थलविदारणकपंचाननसमत्त (स्त) राजावलीसमलंकृतअभिनवसिध्धराजमहारा (*) जाधिराज श्री श्रीमत्सारंगदेवकल्याण-विजयराज्ये । तत्पादपद्मोपजीवनि (जीवि) महामात्य श्रीवाधूये श्रीश्री करणादिसमस्तमुद्राव्यापारान् परि (*) पंथयति सतीत्येनं काले प्रक्त (वर्त) माने अस्यैव परमप्रभो [:]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org