________________
( ३५० ) अर्थः-देव, मुनि, द्विज, राजा, वैश्य, शूद्र, निषाद, पशु, म्लेच्छ, और चाण्डाल ऐसे दश प्रकार के ब्राह्मण कहे गये हैं। संध्यां स्नानं जपं होमं, देवतानित्यपूजनम् । अतिथिं वैश्वदेवं च, देव ब्राह्मण उच्यते ॥३७१।। शाके पत्रे फले मूले, वनवासे सदा रतः । निरतोऽहरहः श्राद्धे, स विप्रो मुनिरुच्यते ॥३७२।। वेदान्तं पठते नित्यं, सर्व-संगं परित्यजेत् । सांख्ययोग विचारस्थः, स विप्रो द्विज उच्यते ॥३७३।। अस्त्राहताश्च धन्वानाः, संग्रामे सर्व सम्मुखे । प्रारम्भे निर्जिता येन, स विप्रः क्षत्र उच्यते ॥३७४॥ कृषिकर्म रतो यश्च, गवां च प्रतिपालकः । वाणिज्य-व्यवसायश्च, स विप्रो वैश्य उच्यते ॥३७५।। लाक्षालवण-सम्मिश्र, कुशुम्भं क्षीर-सर्पिषः । विक्रता मधु-मांसानां, स विप्रः शूद्र उच्यते ॥३७६।। चोरकस्तस्करश्चैव, सूचको दंशकस्तथा । मत्स्यमांसे सदा लुब्धो, विप्रो निषाद उच्यते ॥३७७।। ब्रह्मतचं न जानाति, ब्रह्मसूत्रेण गर्वितः । तेनैव स च पापेन; विप्रः पशुरुदाहृतः ।।३७८।। वापी-कूप-तड़ागाना-मारामस्य सरस्सु च । निश्शङ्करोधकश्चैव, स विप्रो म्लेच्छ उच्यते ॥३७६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org