________________
१४४
श्रीचंद्रकृत
बद्धमबद्धं रिक्तमरिक्तं शून्यमशून्यं व्यक्ताऽव्यक्तं । रुष्टमरुष्टं दुष्टादृष्टं शिष्टमशिष्टं पुष्टाऽपुष्टं ॥ ६६ ॥ अंतर्भेदज्ञानविचारैः व्यवहाराव्यवहारासारैः। वर्ण्यते देहस्थं पुरुर्विषयविरक्तै नविशेषैः ॥ ६७॥ 'विरम विरम बाह्यादिपदार्थे रम रमै मोक्षपदे च हितार्थे । कुरु कुरु निजकार्यं च वितंद्रः भव भव केवलबोधयतीन्द्रः मुंच मुंच विषयाऽमिषभोगं लुप लुप निजतृष्णारोगं । सेंध रुंध मानस मातंगं धर धर जीवविमलतरयोगं ॥६९॥ चिंतय निजदेहस्थं सिद्धं आलोचय कायस्थं बुद्धं । स्मर पिंडस्थं परमविशुद्धं कल केवलकेलीशिवलब्धं ॥ ७० ॥ वैराग्यमणिमालेयं रचिता सप्ततिप्रमा। ब्रह्मश्रुताब्धिशिष्येण श्रीचंद्रेण मुमुक्षुणा ॥ ७१ ॥
समाप्तेयं श्रीचंद्रकृता वैराग्यमणिमाला।
१ इंद्रियसुखविरागिभिः । २ निवृत्तिं कुरु । ३ लीनो भव । ४ प्रमादरहितः सन् । ५ वारय वारय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org