SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ वैराग्यमाणिमाला। १४३ शुद्धरूपचिन्मयचिपिडं चिज्ज्योतिश्चिच्छक्तयोडं । चिद्रम्यं चित्कौमुदिचंद्रं स्मर बोधाधिपतिं गुणसांद्रं ॥ ५५ ॥ निर्मलचिद्रूपामृतसिंधुं शुक्लध्यानांबुजकजबंधुम् । सिद्धिवधूसरसीवरहंसं पश्य शिवं शांतं च निरंशं ॥ ५६ ॥ ज्ञानार्णवकल्लोलकलापे क्रीडति योऽजस्रं शिवरूपे । नवकेवललब्धिभिरापूर्णः सेव्यते मुनिभिर्गतवर्णः ॥ ५७ ॥ केवलकैरविणीविप्रेशं मुक्तिकामिनीकर्णवतंसं । त्रिभुवनलक्ष्मीभालविशेषं लब्धिसौधरत्नानां कलशं ॥ ५८॥ शिवहंसीसंगमसस्नेहं अष्टगुणोपेतं च विदेहं । बोधिसुधारसपानपवित्रं साम्यसमुद्रं त्रिभुवननेत्रं ॥ ५९॥ अनाद्यखंडाचलसद्वेद्यं योगिवृंदवृंदारकवंद्यं । हरिहरब्रह्मादिभिरभिवंद्यं केवलकल्याणोत्सवहृद्यं ॥६० ॥ श्रुतशैवलिनी सुरगिरिविधुरं निःश्रेयसलक्ष्मीकरमुकुरं । कर्ममहीधरभेदनभिदुरं श्यामश्रीग्रीवालंकारं ॥ ६१ ॥ व्योमाकारं पुरुषमरूपं निर्वापितसंसृतिसंतापं । वर्जितकामदहनसंपातं त्रिभुवनभव्यजीवहिततातं ॥ ६२॥ इत्यादिकगुणगणसंपूर्ण चिंतय परमात्मानं तूर्ण । अष्टप्रवचनमातुः पितरं पारीकृताजवंजवपारं ॥ ६३ ॥ निजदेहस्थं स्मररे मूढ ! त्वं नोचेमिष्यसि गूढः । मूर्खाणां मध्ये त्वं रूढः त्वं च भविष्यस्यग्रे षंढः ॥ ६४॥ एकमनेकं स्वं संभारय शुद्धमशुद्धं स्वं संतारय । लक्ष्यमलक्ष्यं स्वं संपारय कर्मकलंकं त्वं संदारय ॥ ६५ ॥ १ शास्त्रसरित् । २ कर्मशैलछेदनशितं । ३ निर्वापितः शमितः संसृतेः संतापो येन । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003104
Book TitleTattvanushasanadi Sangraha
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages186
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy