SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ३२ जिनदत्तचरित्रे शरन्मेघ इव व्यर्थ कुरुषे गलगर्जितम् । दूर एव किमाश्वेहि जुहोमि वडवानले ॥ ११ ॥ आकाशगमनादेव मामस्थास्त्वं महत्तमम् । आत्मानमत्र यद्यान्ति पक्षिणोऽपि भयाकुलाः ॥ १२ ॥ शङ्कन्तां हन्त शक्राद्या भोगलालसमानसाः । अहमस्मि पुनर्मल्लो मुञ्च शस्त्रमशङ्कितः ॥ १३ ॥ प्रमाद्यतोऽपि सिंहस्य लुप्यते केसरच्छटा । कुरङ्गैः काऽपि रे मूढ ! दृष्टं वेति श्रुतं त्वया ॥ १४ ॥ श्रुत्वेति तं महासत्त्वशालिनं समुवाच सः । कोपं मुञ्च महावीर ! मयैवं त्वं परीक्षितः ॥ १५ ॥ प्रसीद शृणु मद्वाक्यमप्रपञ्चं महामते । यथाऽस्ति विजयार्द्धाद्रिदक्षिणश्रेणिमण्डने ॥ १६ ॥ अशोकश्रीः खगाधीशो रथनूपुरपत्तने । विजयाकुक्षिसम्भूता शृङ्गारादिमतिः सुता ॥ १७ ॥ तस्य सा सुकुमाराङ्गी प्राप्तयौवनमण्डना । विद्याधरकुमारेषु वरं नेच्छति कञ्चन ॥ १८ ॥ ज्योतिर्विदा समादिष्टं तदेवं यः पयोनिधौ । तरिष्यति भुआभ्यां स वरीता तव देहजाम् ॥ १९ ॥ तदर्थं प्रेषितावावां विद्याभूचक्रवर्त्तिना । वायुवेगमहावेगौ विद्याधरकुमारकौ ॥ २० ॥ ततः प्राप्तोऽसि पुण्येन विश्वकल्याणभाजनम् । नररत्नं त्वमित्युक्त्वा तं चक्रे तटवर्त्तिनम् ॥ २१ ॥ १ मा जानीहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003103
Book TitleJindutta Charitram Kavyam
Original Sutra AuthorN/A
AuthorGunbhadrasuri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1917
Total Pages102
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy