________________
षष्ठः सर्गः ।
षष्ठः सर्गः।
अथाऽसौ जिनदत्तोऽपि निमज्य जवतो जले। गतपोतं प्रदेशं तमद्राक्षीदुत्थितस्ततः ॥ १॥ जायते महतां चित्तं कोमलं नवनीतवत् । सम्पत्तौ कठिनं चेदं विपत्तावश्मसन्निम् ॥ २॥ सम्भाव्येति पयोराशिर्भुजाभ्यां भयवर्जितम् । तरीतुं प्रारभे तेन किमसाध्यं मनस्विनाम् ॥ ३॥ प्राप्तं च तरता तेन पुरस्तात्फलकं तथा । मित्रमालम्बनं तेन गाढमालिङ्गितं च तत् ॥ ४॥ पादाभ्यां क्वापि कट्याऽसौ पृष्ठवंशेन च क्वचित् । उदरेण गताशकं तरतिस्म निराकुलम् ॥ ५॥ यावत्तावत्पुरो दृष्टं गगने प्राकृताकृति । पुरुषद्वितयं तेन तत्रैकेन प्रजल्पितम् ॥ ६ ॥ रे रे नृकीट ! किं कर्म विहितं भवताऽधुना । येनास्मद्रक्षितं वांधि पादाभ्यामवगाहसे ॥७॥ शक्रोऽप्यत्र जलक्रीडां कर्तुमाशङ्कते मम । दुरात्मनद्य किं याति जीवन्नेव भवानितः ॥ ८॥ विपलब्धोऽप्ति केनाऽपि मन्दभाग्यतयाऽथवा । मनाम न श्रुतं क्वापि येनैवं विचरस्यहो ॥९॥ निशम्येति करं कृत्वा दक्षिणं क्षुरिकोपरि । वामं च फलके दत्वा प्रोवाचेति समत्सरम् ॥१०॥
नराधम इत्यर्थः । २ समुद्रं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org