________________
पञ्चमोऽधिकारः।
धारयेन्नैव विण्मूत्रवेगं निर्गत्य तं बहिः। व्युत्सृजेन्न विशेत्पश्चात्स्वस्थानं धीरधीव्रजेत् ॥ ११३ ॥ कुलं विषण्णव्यग्रोग्रताकुकादिकुलाकुलम् । सन्मार्जनाद्यवयं च वन्द्यमानोऽपि नो विशेत् ॥ ११४ ॥ शृंगारनृत्यचित्रादिशालामुद्यानमिन्द्रिय-। द्विपेन्द्रक्रीड़नस्थानं स्थानमन्यच्च तादृशम् ॥ ११५॥ प्रतिग्रहप्रणामाभ्यां स्थापितो योग्यदातृभिः । तर्णकैलकवालादीननुलंध्य विशेग्दृहम् ॥ ११६ ॥ प्रकाशजनसंचारवत्यशुच्यङ्गिवर्जिते। विस्तीर्ण संवृते शस्ते सम्मते तत्र संवृतः ॥११७ ॥ आत्मोचिताऽऽसनाऽऽसीनो दातृप्रक्षालितकमः। ऊर्ध्वाधःपार्श्वदिक्कोणनिक्षेपाद्यनिरीक्षणः ॥११८॥ वर्णी पूर्णप्रतिज्ञोऽथ सिद्धभक्तिं विधाय तत् । प्रत्याख्यानं विनिष्ठाप्य प्रेरितो भक्तदातृभिः ॥ ११९ ।। समांगुलचतुष्कांतरांघ्रिः स्थित्वा समुध्दृते । पात्रापिंडे करद्वन्द्वमानाभेौतमुत्क्षिपेत् ॥१२० ॥ पुटं पाण्योरभित्वाऽन्यक्षिप्तं भुंजीत तं मतं । विना विकारवेगार्त्तिमांद्याऽऽसक्तिस्वनादिभिः॥१२१ ।। यावदस्ति बलं स्थातुं मिलत्येतत्करद्वयम् । तावडुंजे त्यजाम्यन्यथेति संधा यतेर्यतः॥१२२ ॥ पुरा रत्नसुवर्णादिनानाभाजनभाजिनः । दीनता सज्यते तेभ्यो हीनभाजनभोजने ॥१२३ ॥ तत्सन्न विश्वगेहाय्यं तद्गृहक्षालनादिना । यत्संगाऽसंयमौ च स्तस्तस्मात्पाणिपुटाशनम् ॥१२४ ॥ कान्तातारुण्यलावण्यलीलालोकनजल्पन-। स्मेरास्याब्जपदन्यासविलासायनिरीक्षणः॥ १२५॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org