________________
आचारसारे
शुद्धकायः पुरीषादिमलोत्सर्गविधानतः। परिमृष्टात्मपूर्वापरांगभागो विलोक्य च ॥ ९९ ॥ ततः पंच गुरून्नत्वा भूत्वैकाग्रमतिर्यतिः। कुर्याच्चर्या नगर्यादावदीनाननमानसः ॥ १०० ॥ वर्येयासमितिभॊतिभ्रान्तिप्रीत्यादिवर्जितः। भटकुक्कुटडिंभस्त्रीयुद्धनृत्यादिवीक्षणे ॥१०१ ॥ विहायोल्लघनं जानुदेशादुन्नतवस्तुनः । नाभिनीचं च संकीर्ण द्वारं मार्ग च दुर्गमम् ॥ १०२ ॥ परिहृत्य च दूरेण कासरायुयशृंगिणः। कुंजरोष्ट्रतुरंगाग्नींश्चोन्मत्तश्च नृपोत्रिणः ॥१०३ ॥ कुलं तलारकारूणां सूनामैरेयकारिणाम् । त्यक्त्वा प्रसूतिकाबन्दिवादित्रत्रयजीविनाम् ॥ १०४॥ प्रपापण्याङ्गनाऽनाथाऽवातकाऽभक्तमन्दिरम् । वार्यमाणं विवाहादिमंगलं लोकनिन्दितम् ॥ १०५॥ यज्ञभोजनशालां च कदर्यमृतकालयम् । बद्धं गेहं कवादादिस्थगितादिकमीदृशम् ॥ १०६ ।। अतिप्रसंगसंक्लेशावज्ञादुःकीर्त्यसंयमः। श्रुतलोकविरोधाद्या यत्स्युस्तदेहसंश्रयात् ॥१०७ ॥ क्रमेण योग्यागारालि पर्यटन्प्रांगणं मितम् । विशेन्मौनी विकारांगसंज्ञायाच्योज्झितो यतिः॥१०८॥ इन्दोर्वन्द्या गतिर्यद्वन्नक्षत्रक्षेत्रचारिणः। तद्वन्मुनेश्च पुण्यानुग्राह्यगेहानुसारिणः ॥ १०९॥ यथा वाऽदीनता रत्नदर्शकव्यवहारिणः । गात्रदर्शनमात्राल्पकांक्षभिक्षोस्तथैव सा ॥ ११० ॥ अदीनजैनमार्गस्थः प्रात्यप्राप्तिसमाशयः। कः किं कुत्र कथं मह्यं दास्यतीतीहनोज्झितः ॥ १११ ॥ अस्थापितो निवर्तेत प्रविष्टं मन्दिरादिकम् । पुनर्न प्रविशेदन्यग्रामादींश्चाऽशनाशया ॥ ११२ ॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org