SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ चतुर्थाऽधिकारः। २७. नंदीश्वरमहापूजाराध्यागमनयोजनेप्रमाणक्षेत्रसंन्यासमहानशनवासरैः ॥ ७० ॥ सर्वपर्वक्रियावश्यकाक्रियावसरादिभिः । व्यपेतता भवेत्काले कालशुद्धिर्विशुद्धिदा॥ ७१ ॥ युग्मम् । सप्त व्येकदिनान्यत्र स्वग्रामे योजनप्रमे। क्षेत्रे दूरे च वानि स्वर्गते श्रमणाधिपे॥७२॥ निष्ठाप्य पश्चिमश्यामास्वाध्यायं शुद्धभूस्थितः । व्युत्सर्गेणेन्द्रकीनाशप्रचेतोधनिनां दिशः ॥ ७३ ॥ नवार्यापाठकालेन प्रत्येकं शोधयेदयं । पूर्वाह्नवाचनाहेतोः कालशुद्धिविधिस्त्वयम् ॥ ७४ ॥ विद्युदिन्द्रधनुःक्षोणीकंपाशादाहसंगर-। ग्रहणाकालवृष्टयभ्रगर्जनादिविवर्जितः ॥ ७५॥ त्रिकम् । पूर्वाह्नेऽप्यपराह्नस्य वाचनार्थ विशोधयेत्। एवमाशाश्चतस्रस्तु सप्तार्यापाठकालतः ॥ ७६ ॥ कृत्वैवमपराह्नेऽपि पंचार्यापाठकालतः। दिकशुद्धिं वाचनां पूर्वरात्रौ कुर्याद्दिवं पुरा ॥ ७७ ॥ क्षेत्रशुद्धिं विधायैतत्कारणोपायवर्जिते । निशायां पश्चिमश्यामावाचना नाऽस्ति संयते ॥ ७८ ॥ युग्मम्। व्योमाचलकुलान्तस्थचारणावधिबोधिनाम् । वाचना पररात्रौ तु क्षेत्रशुद्धशुपलंभतः॥ ७९ ॥ सर्वमासेषु जंघाया छाया सप्तपदी कमात् । वाचना ग्रहमोक्षेषु स्यात्पूर्वाहापरालयोः ॥ ८० ॥ १ अत्रापि त्रिषष्टितमश्लोकवद्वृत्तदोषः । २ अत्रापि त्रिषष्टितमपद्यवद्वत्तदोषः वीरनंदिना महाकविनाऽपि एतादृशस्थूलदोषानां कथमवकाशोऽलंभीत्यत्र संशयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy