________________
आचारसारे--
ज्ञानेनाणोति व्याप्नोतीत्यक्ष आत्मा स्वगोचरम् । तमेवाक्षं प्रति गतं प्रत्यक्षमिति वर्ण्यते ॥ ५९ ॥ केवलं वा श्रुतं तत्राशेषवस्तुप्रकाशकम् । द्वादशांगांगवाह्यात्माऽस्पष्टं स्पष्टं तु केवलम् ॥६०॥ वाचना पृच्छना चानुप्रेक्षाऽऽम्नायो यथाविधि । धर्मोपदेश इत्यादि ज्ञानाचारः श्रुते मतः ॥६१॥ यत्सूत्रार्थोभयाऽऽख्यानं शिष्याणां विनयान्वितम् । मोक्षार्थ वाचना प्रोक्ता कृत्वा शुद्धिं चतुर्विधाम् ॥ ६२ ॥ स्वांगे ज्वराक्षिकुक्षादिवेदनापूयशोणित-। स्त्रावविण्मूत्रलेपादेर्द्रव्यशुद्धिरसंभवः ॥ ६३ ॥ सा भवेदनपानादेः सुस्निग्धस्य सुगन्धिनः । मोदकापूपपृथुकप्रभृतेरप्यसेवनम् ॥ ६४ ॥ व्याख्यानस्थानकात्सर्वदिक्षु पंचेन्द्रियांगिनाम् । शवार्द्रचर्ममांसास्थिशोणितादेरसंगमः ॥६५॥ गतात्तृतीयस्वाध्यायादाराद्यः स निगद्यते । क्षेत्रशुद्धिरिति क्षेत्रे द्वात्रिंशद्दण्डमात्रके ॥६६॥ ऋतिर्यकशुष्कचादेहस्तद्वेकशते तदा।। विण्मूत्रयोः क्रमाद्धस्तशतपंचाशत्करायते ॥ ६७ ॥ त्रिकं । पंचाक्षे क्लिश्यमानेऽा म्रियमाणे च कर्मसु। त्रसस्थावरघातेषु सत्स्वेकस्मिनिवर्त्तते ॥ ६८ ॥ आसन्ने बालचाण्डालजलदीपानिलुंचने। दवादिधूमे दुर्गन्धे वाति दूरान्न सा भवेत् ॥ ६९ ॥ युग्मम् । १ साहित्ये प्रथमद्वितयिपादयोस्तृतीयचतुर्थपादयोः संयोगस्तु भणितः, परन्तु द्वितीयतृतीयपादयो त्र तद्दर्शनात्साहित्यभंगत्वात् वृत्तदोषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org