________________
आचारसारे
ते बहुबहुविधक्षिप्रानिसृतानुक्तधुवाः । प्रत्यकं सेतराश्चेति द्वादशावग्रहादयः॥१६॥ वेतकव्यक्तिविज्ञानं बढेकं च क्रमाद्यथा। बहवस्तरवः सूपो बहुश्चैकं वनं नरः ॥ १७ ॥ बढेकजातिविज्ञानं स्याद्बह्वेकविधं यथा। वर्णा नृणां बहुविधा गौर्जात्यैकविधेति च ॥ १८ ॥ आश्वर्थस्य ग्रहः क्षिप्रं स्यादक्षिप्रं शनैर्ग्रहः। मृत्पात्रं यद्वदादत्ते नूनं चानूतनं जलम् ॥ १९ ॥ वस्त्वंशाद्वस्तुनस्तस्य वस्त्वंशाद्वस्तुनोऽथवा । तत्रासन्निहितान्यस्याऽनिसृतं मननं यथा ॥ २०॥ घटार्वाग्भागकं न्यास्य गवयग्रहणक्षणे। स्फुटं घटेन्दुगोज्ञानमभ्याससमयान्विते ॥ २१ ॥ वस्त्वेकदेशमात्रस्य विज्ञानं निसृतं मतम् । घटार्वाग्भागमात्रेऽपि क्वचिज्ज्ञानं हि दृश्यते ॥ २२ ॥ प्रत्यक्षनियताऽन्यादृग्गुणार्थेकाक्षबोधनम् । अनुक्तमेकदैवोक्तं प्रत्यक्षनियतग्रहः ॥ २३॥ चक्षुषा दीपरूपावलोकावसर एव यत् । तदुष्णस्पर्शविज्ञानं यथोक्तार्थः प्ररूप्यते ॥ २४॥ स्पर्शनं रसनं घ्राणं चक्षुः श्रोत्रं मनश्च खम् । अर्थः स्पर्शा रसो गंधा रूपं शब्दः श्रुतादयः ॥ २५ ॥ स्यान्नित्यत्वविशिष्टस्य स्तंभादर्ग्रहणं ध्रुवः । विधुदादेरनित्यत्वेनान्वितस्याध्रुवो ग्रहः ॥ २६॥ लब्धिः सदोपयोगश्च स्याद्भावेन्द्रियमात्मनः। निवृत्त्युपकरणे द्वे स्तो द्रव्येन्द्रियमत्र तु ॥ २७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org