________________
चतुर्थाधिकारः ।
परिणामः समस्तिर्यग् खंडमुंडादिगोषु वा। गोत्वं विशेषः पर्यायव्यतिरेकद्विभेदवान् ॥५॥ एकस्य वस्तुनो भावाः पर्यायाः क्रमभाविनः। तोषरोषादयो भावा जीवे वा क्रमभाविनः॥६॥ व्यतिरेको भवेद्भावो वस्वंतरगतोऽसमः। गोमहिष्यादिभावो यो यथा तद्व्यतिरेचकः॥७॥ ज्ञानं मतिश्रुतावधिमनःपर्ययकेवलैः। भिन्नहेतुस्वरूपाथै दैः पंचविधं च तत् ॥८॥ स्वस्यार्थव्यंजनावग्रहेहनाऽवायधारणाः। मननं मतिरर्थस्य यत्तदिन्द्रियमानसैः॥९॥ व्यंजनावग्रहश्चक्षुर्मनसोर्नास्त्यवग्रहः । विषयाक्षसन्निपातानंतराद्यग्रहः स्मृतः॥१०॥ प्राप्ताप्राप्तार्थबोधाववग्रहो व्यंजनार्थयोः। रसरूपपरिज्ञाने रसनानेत्रयोर्यथा ॥११॥ अवग्रहगृहीतार्थविशेषे हीहनं मतम् । संशयांशविनाशोद्यनिर्णयावयवं यथा ॥१२॥ नरस्यावगृहीतस्य कर्णाटादिविशेषणः । भवितव्यमनेनेति विज्ञानं निर्णयावधिः॥१३॥ ईहितार्थस्थलिंगैर्यस्तद्विशेषविनिश्चयः । अवायो लाट एवायमिति भाषादिभिर्यथा॥ १४॥ कालान्तरे परिज्ञातवस्तुस्मरणकारकः। संस्कारो यस्तदुत्पत्तिकारणं धारणाह्वयम् ॥१५॥
१ हि ईहनमिति पदच्छेदः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org