SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽधिकारः । पुस्तकातापयोगादेर्या याचा विनयान्विता । स्वपरार्थे यतीन्द्राणां सेच्छाकारः प्ररूपितः ॥ ६ ॥ यन्मया दुष्कृतं पूर्वं तन्मिथ्याऽस्तु न तत्पुरः । करोमीति मनोवृत्तिर्मिथ्याकारोऽतिनिर्मलः ॥ ७ ॥ तत्त्वाख्यानोपदेशादौ नान्यथा भगवद्वचः । तत्तथेत्यादरेणोक्तिस्तथाकारो गुणाकरः ॥ ८ ॥ पूर्वोत्तानशनातापयोगोपकरणादिषु । सेच्छावृत्तिर्गणीच्छानुवृत्तिर्या विनयास्पदा ॥ ९ ॥ स्थिता वयमियत्कालं यामः क्षेमोदयोऽस्तु ते । इतीष्टाशंसनं व्यंतरादेराशीर्निरुच्यते ॥ १० ॥ जीवानां व्यन्तरादीनां बाधायै यन्निषेधनम् । अस्माभिः स्थीयते युष्मद्दिष्टयैवेति निषिद्धिका ॥ ११ ॥ प्रवासावसरे कन्दरावासादेर्निषिद्धिका । तस्मान्निर्गमने कार्या स्यादाशीर्वैरहारिणी ॥ १२ ॥ ग्रंथारंभकचोल्लोचकायशुद्धिक्रियादिषु । प्रश्नः सूर्यादिपूज्यानां भवत्याप्रच्छनं मुनौ ॥ १३ ॥ यत्किंचन महत्कार्य कार्य पृष्ट्वा यतीश्वरान् । विनयेन पुनः प्रश्नः प्रतिप्रश्नः प्रकीर्तितः ॥ १४ ॥ पुस्तकादौ पुरा दत्ते नात्मार्थे यन्निवेदनम् । जिघृक्षायां पुनः सूरिप्रमुखेष्वानिमंत्रणम् ॥ १५ ॥ विनयक्षेत्रमार्गाणां संश्रयः सुखदुःखयोः । सूत्रस्य चेत्ययं पंचप्रकारः संश्रयः स्मृतः ॥ १६ ॥ वीक्ष्याऽऽगन्तुकमायांतं यतिमुत्थाय संभ्रमात् । पदानि सप्त गत्वा च कृत्वा तद्योग्यवन्दनम् ॥ १७ ॥ मार्गश्रान्तिमपोह्यासनप्रदानादियत्नतः । त्रिरत्नसुस्थितादीनां प्रश्नो विनयसंश्रयः ॥ १८ ॥ युग्मम् । १ गृहीत २ ग्रहीतुमिच्छायां । Jain Education International For Private & Personal Use Only 9 www.jainelibrary.org
SR No.003101
Book TitleAachar Sara
Original Sutra AuthorN/A
AuthorIndralal Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1918
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy