________________
आचारसारे
उदयास्तोभयं त्यक्त्वा त्रिनाडी जनं सकृत् । एकद्वित्रिमुहूर्त स्यादेकभक्तं दिने मुनेः॥४७ ॥ येषां भूषणतां गता गुणगणकावल्यलं निर्मला
येयं विश्वनरामरेश्वरमिलिन्दानन्दिपादाम्बुजाः । ते यान्ति श्रमणाग्रगण्यपदवीगण्या वरेण्यं पदं
सिद्धिश्रीपरिरंभणामृतसुखास्वादास्पदं योगिनः॥४८॥ प्रोन्निर्यकरनीलरत्नरुचिरोदाराङ्गचेतोहरः
पूर्णोदीर्णसदाश्रयान्तरमहाभोगास्पदाशोत्करः। गंभीरास्तसमस्तदोषमधुरध्वानोचदानन्दनः सर्वोर्वीसुखसंपदेऽस्त्वमृतदो नेमिर्धनः पावनः ॥४९॥ इति श्रीवीरनन्दिसिद्धान्तिचक्रवर्तिविरचिते श्रीआचारसार
नाम्नि शास्त्रे प्रथमोऽधिकारः॥१॥
अथ द्वितीयोऽधिकारः॥२॥
श्रियः पदं सर्वविदः पदाम्बुजं नमन्निलिंपालिमिलिन्दमान्दरम् । सन्मानसोल्लासिनखांशुकेसरं पार्श्वस्य नः स्ताद्वरदं जिनेशिनः॥१॥
तनोति संपदं नीतिर्यद्वत्तद्वद्गणश्रियम्। सपियां या समाचारनीतिःसा कीर्त्यतेऽधुना ॥२॥ समः समानः सं सम्यगाचारो यः समैयुतैः । आचार्यत इति प्राज्ञैः स समाचार ईरितः ॥ ३॥ एष संक्षेपविस्तारद्विभेदो दशभेदगः।। संक्षेपोऽनल्पभेदोऽन्य आदिभेदा इमे दश ॥४॥ इच्छामिथ्यातथाकारेच्छावृत्त्याशीनिषिद्धिका ।
आप्रच्छन्नं प्रतिप्रश्नश्चानिमंत्रणसंश्रयौ ॥५॥ १ भ्रमरः २ मोक्षं ३ निलिपाः सुराः ४ समाचारस्य व्युत्पत्तिमाह ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org