________________
द्वितीयोध्यायः।
भक्त्या ग्रामगृहादिशासनविधादानं त्रिसन्ध्याश्रया सेवा स्वेऽपि गृहेऽर्चनं च यमिना नित्यपदानानुगम् ।। टीका-प्रोक्तः प्रवचने कथितः । कोऽसौ, नित्यमहः । किं, पूजा। कस्य, अर्हतः । क, चैत्यगृहे । केन, गन्धादिना चन्दनाक्षतपुष्पादिना। किंविशिष्टेन, नीतेन चैत्यालयं प्रापितेन । कस्मा,-निजगृहात् । कथ,-मन्वहं दिने दिने । तथा प्रोक्तो नित्यमहः । किं तत्, चैत्यादिनिर्मापणं चैत्यचैत्यालयादिनिष्पादनं । कस्मात्, स्वविभवात् निजधनविनियोगात् । तथा प्रोक्तो नित्यमहः । किं तत्, ग्रामगृहादिशासनविधादानं ग्रामः संवसथः, गृहं वेश्म आदिशद्धारक्षेत्रहट्टादिपरिग्रहः, ग्रामगृहादेः शासनविधया शासनविधानेन दानं । कया, भक्त्या । तथा प्रोक्तो नित्यमहः । किं, सेवा आराधना । कस्य, अर्हतः। किंविशिष्टा, त्रिसन्ध्याश्रया त्रैकालिकी । क्व, गृहे । किंविशिष्टे, स्वे निजे, अपिशब्दाच्चैत्यगृहे च । न केवलमहत्पूजादिकं नित्यमहः प्रोक्तः, अर्चनं च पूजा । केषां, यमिनां संयतानां । किंविशिष्टं, नित्यप्रदानानुगं अहरहःप्रकृष्ट. दानसम्बन्धि ॥ २५॥
अथाष्टान्हिकैन्द्रध्वजौ लक्षयतिजिनार्चा क्रियते भव्यैर्या नन्दीश्वरपर्वणि ।
अष्टाह्निकोऽसौ सेन्द्रायैः साध्या विन्द्रध्वजो महः ॥२६॥ टीका--प्रोक्तः सूरिभिः । कोसा, बसौ महः । किमाख्यः, आष्टान्हिकः । या किं, या क्रियते । का,-सौ जिनार्चा अर्हत्पूजा । कै,-भव्यैर्भावुकलोकैः सम्भूयकरणज्ञापनार्थ बहुवचनं । क, नन्दीश्वरपर्वणि प्रतिवर्षमाषाढकार्तिकफाल्गुनसितपक्षेष्वष्टम्यादिदिनाष्टके । तथा प्रोक्तः । कोऽसौ, इन्द्रध्वजाख्यो महः । काऽसौ, सा जिनार्चा । किंविशिष्टा, साध्या क्रियमाणा । कै,-रिंद्राद्यैः इन्द्रप्रतीन्द्रसामानिकादिभिः । तुर्विशेषे ॥ २६ ॥ अथ महामहं निर्दिशति--
भक्त्या मकुटबद्धैर्या जिनपूना विधीयते । तदाख्या सर्वतोभद्र-चतुमुखर्भहामहाः ॥ २७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org