________________
२३०
सागारधर्मामृतेram मुनीनां नित्यमाचरणं । कथं, यथाशक्ति अनिगृहितबलवीर्य यथा भवति । किंविशिष्टः सन्, भक्तिपीतमनाः भक्त्या पीतं स्वान्तं पीतमनुरंजितं वा मनश्चित्तं यस्य स तथोक्तः ॥ ७८ ॥
शूले प्रोतो महामन्त्रं धनदत्तार्पितं स्मरन् ।
दृढशूर्पो मृतोऽभ्येत्य सौधर्मात्तमुपाकरोत् ॥ ७९ ॥ टीका--अतिनिर्भयमुपाकरोत् स्वस्वामिनृपतिकार्यमाणोपसर्गनिराकरणपूर्वकसत्कारकरणेनोपाकृतवान् । कोऽसौ, दृढशूर्पो नाम चोरः । कं, तं धनदत्तश्रेष्ठिनं । किं कृत्वा, अभ्येत्य आगत्य । कस्मात्सौधर्मात् सौधर्मकल्पविमानात् । सौधर्मे महर्द्धिकदेवत्वं प्राप्त इत्यर्थादापन्नमत्र बोध्यं । कथम्भूतः सन् , मतः । किं कुर्वन्, स्मरन् चिन्तयन् । कं, महामन्त्रं पञ्चनमस्कारं तदनुचिन्तनस्योत्कृष्टस्वाध्यायत्वात् । किंविशिष्ट, धनदत्तार्पितं धनदत्ताख्येन श्रेष्टिना ढौकितं । किंविशिष्टः स्थितः, शूले प्रोतः शूलिकायामारोपितः ॥७९॥
खण्ड श्लोकैस्त्रिभिः कुर्वन् स्वाध्यायादि स्वयंकृतैः।
मुनिनिन्दाप्तमौग्ध्योऽपि यमः सप्तर्द्धिभूरभूत् ॥ ८० ।। टीका--अभूत् । कोऽसौ, यमः यमो नाम राजा, राज्यं त्यक्त्वा प्रव्रजितः । किंविशिष्टः, सप्तर्द्धिभूः । बुद्धि तवो वि य रिद्धी विडउणरिद्धी तहेव ओसहिया। रसबलअक्खीणा वि य रिद्धीओ सत्त पण्णत्ता ॥ इत्यासां सप्तानामृद्धीनां भूः स्थानं सप्तर्धिप्राप्तोऽभूदित्यर्थः । किंविशिष्टोऽपि, मुनिनिन्दाप्तमौग्ध्योऽपि मुनिनिन्दया प्राप्तमूढभावोऽपि । किं कुर्वन् स तथा अभूत्, कुर्वन् । किं नत्, खाध्यायादि। कैः, खण्डश्लोकैः। किंविशिष्टैः, स्वयंकृतैः स्वयमात्मना निर्मितैः । कतिभिस्त्रिभिः । तद्यथा-" कंडसि पुणुणं स्वेवसि रेगदहा । जवं पत्थोसि खादिदं ॥ १ ॥ अंणत्थ किं फलो वहा तुह्मी इत्थ बुधिया छिदे। अंके च्छेद इको णिया ॥२॥ अह्मा दोणं दि भयं दिहादोदिसराभयं तुह्म” ॥८॥ अहिंसाहिंसयोर्माहात्म्यं द्वाभ्यामाह--
अहिंसापत्यपि दृढं भजनो जायते रुजि । यस्त्वध्यहिंसासर्वस्वे स सर्वाः क्षिपते रुजः ॥ ८१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org