SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ अष्टमोध्यायः। २१७ टीका--तेन महाभव्येन । किमलब्धपूर्वमनादिकालमप्राप्तं सम्यक्त्वसह - चारि महाभ्युदयादिकं न लब्धं ? तत्सर्वं प्राप्तमित्यर्थः । येन जीवितं समा. धिना रत्नत्रयैकाग्रतया त्यक्तं । किं कृत्वा, पञ्चधा पञ्चप्रकारां शुद्धिं पञ्चप्रकारं च विवेकमाप्य प्राप्य ॥ ११ ॥ बहिरंगान्तरंगविषयभेदात्पञ्चविधां शुद्धिमाह शय्योपध्यालोचनान्नवैयावत्येषु पञ्चधा । शुद्धिः स्यात् दृष्टिधीवृत्तविनयावश्यकेषु वा ॥ ४२ ॥ टीका-स्यादसौ शुद्धिः । कतिधा, पञ्चधा । केषु, शय्यादिषु विषयेषु । तत्र शय्या वसतिसंस्तरौ । उपधिः संयमसाधनं । आलोचना गुरवे दोषनिवेदनं । अन्नं चतुर्विधाहाराः । वैय्यावृत्यं परिचारकैः क्रियमाणं पादमर्दना. दिकं । तेषु पञ्चसु शुद्धिः प्राणेन्द्रियसंयमेन प्रवृत्तिरेषा बाह्या । इयं त्वन्तरङ्गा पञ्चधा शुद्धिः स्यात् । याऽसौ दृष्टयादिषु पंचसु । दृष्टौ दर्शने धियां ज्ञाने, वृत्ते चारित्रे, विनये प्रश्रये, आवश्यक सामयिकादिषट्काचरणे च निरतिचार • तया प्रवृत्तिः ॥ ४२ ॥ शुद्धिवन्मतद्वयेन पञ्चधा विवेकमाह-- विवेकोऽक्षकषायाङ्गभक्तोपधिषु पञ्चधा । स्याच्छय्योपधिकायान्नवैयावृत्यकरेषु वा ।। ४३ ॥ टीका--विवेकः आत्मनः पृथग्भावः साध्यवसायः पञ्चधा स्यात् । केषु, अक्षादिषु विषयेषु । तत्रेन्द्रियेभ्यः कषायेभ्यश्चात्मनः पृथक्चिन्तनं द्विविधो भावविवेकः । द्रव्यविवेकस्तु शरीराहारसंयमोपकरणेभ्यः स्वस्य पृथचिन्तनेन त्रिविधः । तमेव मतान्तरेणाह-शय्येत्यादि शय्यादयः प्रारुपाख्याताः तेभ्यः पृथचिन्तनेन कैश्चिद्विवेकः पञ्चधोक्तः ॥ ४३ ॥ निश्चलसचेलयोर्महाव्रतभावनाविशेषमाह निर्यापके समर्य स्वं भक्त्यारोप्य महाव्रतम् । निश्चलो भावयेदन्यस्त्वनारोपितमेव तत् ।। ४४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy