________________
२१२.
सागारधर्मामृते
wwwwwwwwwwwwwwwwwwwwwwwwww
किं कृत्वा, कृत्वा । कां, योग्यां प्रायार्थीत्यादिना प्रबन्धेन वक्ष्यमाणं परिकर्म ॥ २५॥ निर्यापकबलाद्भावितात्मनः समाधिमरणेऽन्तरायाभावं दर्शयति
समाधिसाधनचणे गणेशे च गणे च न ।
दुर्दैवेनापि सुकरः प्रत्य॒हो भावितात्मनः ॥ २६ ॥ टीका-न भवति । कोऽसौ, प्रत्यूहो विनः। किंविशिष्टः, सुकरः सुखेन कर्तुं शक्यः । केन, दुर्दैवेन प्राकृताशुभकर्मणा । किं पुनः प्रतिपक्षादिनेत्यपिशब्दार्थः । कस्य, भावितात्मनः भावितात्मानं समाधेश्चालयितुं दुर्दैवमपि न शकोतीत्यर्थः । क सति, गणेशे निर्यापकाचार्ये च । गणे च सधे । किंवि. शिष्टे, समाधिसाधनचणे समाधे रत्नत्रयैकाग्रतायाः साधनं सम्पादनं तेन वित्ते अनेकशः क्षपकाणां समाधिसाधनेन प्रसिद्ध इत्यर्थः ॥ २६ ॥ श्लोकद्वयेन समाधिमरणमाहात्म्यं स्तुवन्नाह
प्रारजन्तुनाऽमुनाऽनन्ताः प्राप्तास्तद्भवमृत्यवः ।
समाधिपुण्यो न परं परमश्वरमक्षणः ॥ २७ ॥ टीका--प्राप्ताः । के, तद्भवमृत्यवः भवान्तरप्राप्तेरनन्तरोपश्लिष्टपूर्वभवविगमनं तद्भवमरणमाख्यायते । कियन्तोऽनन्ताः । केन, अमुना संसारिणा । जन्तुना जीवेन । कथं, प्राक् इतः पूर्व । परं केवलं न प्राप्तः । कोऽसौ, चरमक्षण: भवपर्यायविगमान्त्यसमयः । किंविशिष्टः, समाधिपुण्यः रत्नत्रयैकाग्रतया पवित्रः। संसारकारणकर्मनिर्मूलनसमर्थत्वात्परमः इतरसर्वक्षणेभ्य उत्कृष्टश्च ॥ २७॥
परं शंसन्ति माहात्म्यं सर्वज्ञाश्चरमक्षणे ।
यस्मिन्समाहिता भव्या भञ्जन्ति भवपञ्जरम् ॥ २८ ॥ टीका-परमुत्कृष्टं । माहात्म्यं महिमा । सर्वज्ञाः शंसन्ति स्तुवन्ति । क्व, चरमक्षणे । यस्मिन् यत्र चरमक्षणे । समाहिताः समाधिं गता भव्याः । भान्ति विघटयन्ति । किं तत्, भवपञ्जरं भवः संसारः पञ्जरमिव शुकादिः पक्षिण इव जीवस्य पारतंत्र्यनिमित्तत्वात् ॥ २८ ।।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org