SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ पंडितप्रवर आशाधरः। (हिन्दीभाषातः संस्कृतेऽनुवादः कारितः) अयं श्रीविद्वच्छिरोमणिः व्यारवाल-(वघरवाल ) जातिदिशां निजतेजसा भूषयांचके, अतएवास्य आशाधरेति सार्थकं नामास्ति । तस्य पितु म सलखणो मातुश्च श्रीरत्नी इति प्रथितम् । जन्म चास्य माण्डलगढे यदस्मिन् समये मेवाड़राज्येऽन्तर्गतः, खामिलोचनेन्दुमित १२३. विक्रमसंवत्सरे निकटवर्तिनि कस्मिंश्चित्समये बभूव। एकोनपंचाशदधिकद्वादशशत( १२४९) विक्रमाब्दे गजनीपट्टनस्थशहाबुद्दीनगौरीनामकेन तुरुष्कराजेन पृथ्वीराजनृपेन्द्रं निजबंधने कृत्वा इन्द्रप्रस्थ (दिल्ली) स्वकीयराजधानी स्थापिता। तदैव च तेन अजमेराख्यप्रान्ते आक्रमितं । यवनानां महदत्याचारेभ्यः धर्मनाशभयेन तत्क्षणे पंडितवरस्य पूज्यपितरः सकुटुंबं मालवीयराजधान्यां धागपुरी न्यबसन् । तदा तत्र परमारवंशीयस्य प्रतापिनो विन्ध्यवर्मनृपस्य राज्यमासीत् । एष विन्ध्यनरेन्द्रविजयवर्मेत्याख्याभ्यामपि प्रथितः । - आशाधरस्य पिता सलखणः ( सल्लक्षणः) भुवि बहुसंमानित इत्यनुमीयते । अर्जुनवर्मदेवमहाराजस्य द्वासप्तत्यधिकद्वादशशतपरिमित ( १२७२) विक्रमाब्दीयमेकं दानपत्रमुपलब्धमस्ति यदमरेश्वरतीर्थे समर्पितम् । तदन्ते च " महासांधिविग्रहिकराजा सलखणसंमतेन राजगुरुणा मदनेन" इति लिखितमस्ति । अनेन ज्ञायते यत् आशाधरस्य पिता सलखणाख्यः अर्जुनवर्मदेवनृपस्य सांधिविग्रहिकमंत्री ( फोरेन सेक्रेटरी ) बभूव, तं च राजपदवी उपब्धाऽऽसीत् । अर्जुनवमा विन्ध्यवर्मणः पौत्रः सुभटवर्मणस्तनूज आसीत् । अस्य राज्यसमयो विक्रमीयपंचषठ्यधिकद्वादशशताब्दत एकद्विवर्ष पूर्व पश्चाद्वाऽस्ति इति कल्प्यते। आशाधरस्य रमणी सरस्वतीति नाम्ना प्रख्याता। तस्याःकुक्षितः छाहडाख्यः सू नुरभवत् यस्य प्रशंसा तैरेव स्वयंकृता लिखितं चास्ति यत् महाराजार्जुनदेवा अपि तद्गुणेऽनुरक्ता आसन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003099
Book TitleSagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages268
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy