________________
६७२
अनगारधर्मामृते
संप्रल्याचार्या येन व्यवहरन्ति स प्रकारः । सूरिः स्यात् । कीदृशः ? परिचारी क्षपकशुश्रूषाकारी । तद्वैयावृत्त्यकर इत्यर्थः । तथा आयापायदिगाचार्यः स्यात् । कीदृशः ? गुणदोषप्रवक्ता क्षपकस्यालोचनोद्यतस्य गुणानां दोषागां च प्रकाशको वक्रतयालोचयतो दोषप्रकाशकश्च । उक्तं च
गुणदोषाणां प्रथकः क्षपकस्य विशेषमालुलोचयिषोः ।
अनृजोरालोचयतो दोषविशेष प्रकाशयति ॥ उत्पीलको गणधरः स्यात् । कीदृशः ? दोषवामकः व्रताधतीचारस्यान्तगूढस्य बहिनिष्कासकः । उक्तं च
ओजस्वी तेजस्वी वाग्मी च प्रथितकीर्तिराचार्यः । हरिरिव विक्रमसारो भवति समुत्पीलको नाम ॥ सूहिरनावी अपरिस्रावी स्यात् । कीदृशः ? रहोऽमेत्ता गोप्यदोषस्य रहस्यालोचितस्याप्रकाशकः । उक्तं च
आलोचिताः कलङ्का यस्या यः पीततोयसस्थायाः। न परिस्रवन्ति कथमपि स भवत्यपरिस्रवः सूरिः॥ तथाऽष्टमः सुखावहः सूरिः स्यात् । कीदृशः ? निर्वापकः क्षुदादिदुःखोपशमकः । यथाह
गम्भीरस्निग्धमधुरामतिहृद्यां श्रवःसुखाम् । निर्धापकः कां कुर्यात् स्मृत्यानयनकारणम् ॥ स्थितिकल्पदशकं गीतिद्वयेन निर्दिशतिआचेलक्यौदेशिकशय्याधरराजकीयपिण्डोज्झाः । कृतिकर्म व्रतरोपणयोग्यत्वं ज्येष्ठता प्रतिक्रमणम् ॥ ८०॥ मासैकवासिता स्थितिकल्पो योगश्च वार्षिको दशमः । तनिष्ठंः पृथुकीर्तिः क्षपकं नियोपको विशोधयति ॥८॥युग्मम्
आचेलक्यं वस्त्रादिपरिग्रहाभावो नग्नत्वमानं वा । तञ्च संयमशुद्धीन्द्रियजयकषायाभावध्यानस्वाध्यायनिर्विघ्नतानिनन्थत्ववीतरागद्वेषताशरीरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org