________________
नवमोऽध्यायः।
६७१
गुणदोषप्रवक्ताऽऽयापायदिग् दोषवामकः । उत्पीलको रहोऽभेत्ताऽस्रावी निर्वापकोष्टमः ॥७९॥ युग्मम् ।
आचारी आचारवानाचार्यः स्यात् । कीदृशः ? पञ्चाचारकृत् । पञ्चानां ज्ञानाद्याचाराणामाचरिताऽऽचरयिता उपदेष्टा च । उक्तं च
आचारं पञ्चविधं चरति च चारयति यो निरतिचारम् । उपदिशति सदाचारं भवति स आचारवान् सूरिः॥ आधारी सूरिः स्यात् । कीदृशः ? श्रुतो रोऽनन्यसामान्यश्रुतज्ञानसंपन्नः । उक्तं च--
नवदशचतुर्दशानां पूर्वाणां वेदिता मतिसमुद्रः । कल्पव्यवहारधरः स भवत्याधारवान् नाम ॥ तथा तद्वान् व्यवहारवान् गणी स्यात् । कीदृशः ? व्यवहारपटुः प्रायश्चित्तस्य ज्ञाता बहुशो दीयमानस्य द्रष्टा तत्प्रयोक्ता च । उक्तं च
पञ्चविधं व्यवहारं यो मनुते वस्तुतः सविस्तारम् । कृतकारितोपलब्धप्रायश्चित्तस्तृतीयस्तु ॥ पञ्चविधमिति विशेषणं व्याचष्टे
आगमश्च श्रुतं चाज्ञाधारणाजीत एव च । व्यवहारा भवन्त्येते निर्णयस्तत्र सूत्रतः॥ आगम एकादशाङ्गोक्तं प्रायश्चित्तम् । तदेव चतुर्दशपूर्वोक्तं श्रुतम् । उत्तमार्थोद्यत् आचार्यो जङ्घावलपरिहीनः स्थानान्तरस्थितः सुस्थिताचार्यसमीपे खतुल्यं ज्येष्टशिष्यं प्रेष्यं तन्मुखेन तस्याने स्वदोषानालोच्य तन्निर्दिष्टं प्रायश्चित्तं यच्चरति तदाज्ञेति व्यपदिश्यते । स एवासहायः सन् संजातदोषस्तत्रैव स्थितः पूर्वावधारितप्रायश्चित्तं यत्करोति सा धारणा नाम । द्वा सप्ततिपुरुषजातस्वरूपमपेक्ष्य यदुक्तं प्रायश्चित्त तज्जीत इत्युच्यते ।
१-'अपरिस्रावो नास्ति परिस्रवो यस्मादसावपरिसवोऽपरिस्रावी. इति पुस्तकद्वयेपि पाठ उपलभ्यते । न च स शोभनः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org