________________
प्रथमोऽध्यायः।
५७
धर्मः । कैः ? आर्यैः प्रेक्षापूर्वकारिभिः । किंविशिष्टः ? सारः उपादेयतमत्वादन्तर्भागः । कस्य ? नृभवस्य मनुष्यजन्मनः । किं कृत्वा ? विचार्य प्रत्यक्षानुमानागमैर्यथावब्यवस्थाप्य । कथम् ? सदा नित्यं । किं विशिष्टोसौ यतः ? अभ्युदयेत्यादि । अनुषज्यते धर्मेण संपद्यते इत्यनुषङ्गोत्र पुण्यम् । अभ्युदयोनुषङ्गफलं गुणसाध्यं यस्य स एवं । अखिलानां सर्वेषां क्लेशानामुपतापानां विनाशे निष्ठा तत्परता यस्य स एवम् । अनन्तं निरवधि शर्म सुखं यत्र तदनन्तशर्म । तच्च तदमृतं मोक्षश्चानन्तशर्मामृतम् तद्ददातीति तथा। अनन्तं दीर्घकालानुबन्धि शर्म सुखममृतं च पीयूषं ददातीत्यपि व्याख्येयं, धर्मस्य सर्वार्थसिद्धिपर्यन्तसुदेवत्वानुषक्ततीर्थकरत्वपर्यन्तसुमानुषत्वफलदायकत्वेन समर्थितत्वात् ।
अथातो द्वाविंशत्या पद्यैर्मनुष्यत्वस्य निस्सारत्वं चिन्तयति । तत्र तावच्छरीरस्वीकारदुःखमाहप्राङ्मृत्युक्लेशितात्मा द्रुतगतिरुदरावस्करेऽह्नाय नार्याः, संचार्याहार्य शुक्रार्तवमशुचितरं तन्निगीर्णानपानम् । गृयाऽनन् क्षुत्तृषार्तः प्रतिभयभवनावित्रसन्पिण्डितोना, दोषाद्यात्माऽनिशात चिरमिह विधिना ग्राह्यतेऽङ्गं वराकः ६४
ग्राह्यते स्वीकार्यते । कोसौ ? ना मनुष्यगतिनामकर्मोदयवर्तिजीवः । केन ? विधिना प्राक्तनकर्मणा । किं तत् ? अङ्गं शरीरम् । किथत्कालम् ? चिरं नव दश वा मासान् यावत् । क्व ? इह नृभवे । किविशिष्टः । वराको नानादुःखपारतच्यादनुकंप्यः । किंविशिष्टमङ्गम् ? दोषाद्यात्म । दोषा वातपित्तकफाः । धातवो रसामृङ्मांसमेदोस्थिमजशुक्राणि । मला विण्मूत्रप्रस्वेददूषिकादयः । दोषा आदयो येषां धात्वादीनां ते दोषादय आत्मा स्वभावो यस्य तदेवम् । दोषधातुमल स्वभावमित्यर्थः । पुनः किंविशिष्टम् ? अनिशार्तऽनिशं नित्यमार्तमातुरम् । नित्यदुःखितमित्यर्थः । तस्यैव पूर्वभवमरणात् प्रभृति देहग्रहणं यावदवस्थां वक्तुमाह-प्रागित्यादि । किंविशिष्टः सन् ग्राह्यतेङ्गं ना ? पिण्डितः संकुचितप्रदेशः । किं कुर्वन् ? वित्रसन् विविधमुद्विज्यमानः । कस्मात् ? प्रतिभयभवनाद्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org