SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते गुरुस्थानाभ्युपगमो गणोपग्रहणं तथा ॥ इति । चराकान् अनुकम्प्यान् । दुःसहदुःखदावानलज्वालाजाल विजृम्भणोपलम्भान्नयनजलादिनाभिव्यज्यमानान्तः क्लेदमभ्युद्धरणबुद्ध्या मुहुर्मुहुरध्यात्ममध्यारोप्यमाणानित्यर्थः । इतीत्यादि । इति एवं युगपत्रिजगदनुग्रहणसमर्थो भवेयमहमिति परम करुणानुरक्तान्तश्चैतन्यपरिमाणामलक्षणेनात्मरूपेणारोहन् क्षणे क्षणे वर्धमानः परेषामनुग्राह्यदेहिनामनुग्रह उपकार इत्यारोहत्परानुग्रहः तस्य रसः प्रकर्षस्तज्जन्यहर्षो वा तेन विलसन्त्यो विशेषेणानगार केवलित्वयोग्यभावकानामसंभवित्वादनन्यसामान्यतया द्योतमानाः प्रतीतिविपीभवन्त्यो भावनाः परमपुण्यतीर्थकरत्वाख्यनामकर्मकारणभूताः पोडश दर्शन विशुद्ध्यादिमनस्कारसंस्काराः, ताभिरुपात्तमुपार्जितं पुण्यं तीर्थंकरत्वाख्यः सुकृतविशेषः, तेन केवलज्ञानसंनिधानलब्धोदयेन प्रक्रान्तैः प्रारब्धैः । तत्प्रक्रान्तैरेव न विवक्षादिजनितैर्वीतरागे भगवति तद्विरोधात् । तथा चोक्तम्- यत्सर्वात्महितं न वर्णसहितं न स्पन्दितौष्टद्वयं, नो वाञ्छाकलितं न दोषमलिनं न श्वासरुद्धक्रमम् । शान्तामर्पविषैः समं पशुगणैराकर्णितं कर्णिभि, स्तन्नः सर्वविदः प्रणष्टविपदः पायादपूर्व वचः ॥ इति । वाक्यैर्दिव्यध्वनिभिः । उच्यते विनेयान् प्रतिपाद्यते इति वाक्यम् अत्र दिव्यो ध्वनिः । उक्तं च पुण्हे मज्झहे अवरण्हे यज्झिमाये रत्तीये । छच्छग्घडियाणिग्गयदिव्वझुणी कहइ सुत्तत्थे ॥ इति । शिवपथं प्रागुक्तलक्षणं मोक्षमार्गम् । उचितान् योग्यान् । शिवपथजिज्ञासया सभासमायातभव्यानित्यर्थः । शास्ति शिक्षयति यः । भवति चात्र श्लोक: दृग्विशुच्यायुत्थ तीर्थ कृत्त्व पुण्योदयात् स हि । शास्त्यायुष्मान् सतोऽर्तिघ्नं जिज्ञासूंस्तीर्थमिष्टदम् ॥ १ नैतत्पूर्ण समस्तपदमुक्तमेकत्र । २ पूर्वाहे मध्यान्हे अपराण्हे मध्यमायां रात्रौ षट्ष घटिका निर्गत दिव्यध्वनिः कथते सूत्रार्थम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy