________________
प्रथमोऽध्यायः।
एवं तद्गुणग्रामस्य सहसा प्रात्यर्थितया प्रथमं सिद्धानाराध्येदानीं तदुपायोपदेशकज्येष्ठतया त्रिजगज्येष्ठमर्हद्भट्टारकमखिलजगदेकशरण्यं शरणं प्रपत्तुमना इदमाह
श्रेयोमार्गानभिज्ञानिह भवगहने जाज्वलदुःखदावस्कन्धे चक्रम्यमाणानतिचकितमिमानुद्धरेयं वराकान् । इत्यारोहत्परानुग्रहरसविलसद्भावनोपात्तपुण्य, प्रक्रान्तैरेव वाक्यैः शिवपथमुचितान् शास्ति योर्हन् स नोऽव्यात् ॥२॥ श्रेयसो मोक्षस्य संसाराभावे पुंसः स्वात्मलाभस्य मार्गः प्रायुपायो व्यवहारेण सम्यग्दर्शनज्ञानचारित्रत्रयं निश्चयेन च तन्मयः स्वात्मैवेति श्रेयोमार्गः। तस्यानऽभिज्ञानाभिमुख्येन संशयादिव्यवच्छेदलक्षणेन सामस्त्येन वा व्यवहारेतररूपेणानवगन्तृन् श्रेयोमार्गानभिज्ञान् । सम्यग्मुक्त्युपायमुग्धानित्यर्थः । तथा श्रेयसोभ्युदयस्य मार्गानभिज्ञानऽप्रवीणान् । इहास्मिन्प्रतीयमाने । भवन्ति चतुर्गतिपरिवर्तनरूपेण वर्तन्ते उत्पादव्ययध्रौव्यैकत्वलक्षणां वृत्तिमालम्बन्ते जीवा अस्मिन्निति भवः संसारः। भवो गहनमरण्यमिव नानादु:खनिमित्तत्वाद्, भवगहनं तस्मिन् । दुःखानि सहजशारीरमानसागन्तुकपरितापरूपाणि । दुःखानि दावा दवाग्मय इव देहमनसोर्विनाशान्तव्यापत्ति. निमित्तत्वाद् दुःखदावाः । दुःखदावानां स्कन्धः प्राग्भारो दुःखदावस्कन्धः। जाज्वल भृशं पुनः पुनर्वा ज्वलन् देदीप्यमानो निरङ्कुशं स्वकार्याय प्रभवन् दुःखदावस्कन्धो यस्मिन् लज्जाज्वलद्दुःखदावस्कन्धं, तस्मिन् । चक्रम्यमाणान् कुटिलं कामत इतस्ततो भ्राम्यतो दुःखदावाभिमुखं गच्छत इति भावः । अतिचकितं संत्रासातिरेकं कृत्वा इमानिदंतया प्रतीयमानान् अन्तश्चेतसि चकासतो विचित्रदुःखार्तजगत्रयजन्तूनुद्धरेयं तत्ताहरभवगहननिःसरणोपायो. पदेशेनोपकुर्यामहम् । अहें प्रार्थने वा सप्तमी । सैषा तीर्थकरत्वभावना मुख्यवृत्याऽपायविचयाख्या धर्मध्यानविशेषलक्षणा। तथा चोक्तमा गर्भान्वयक्रियावर्णनप्रक्रमे
मौनाध्ययनवृत्तत्वं तीर्थकृत्त्वस्य भावना। १ विधिलिङ्लकारस्य कातन्त्रकलापव्याकरणे सप्तमीति संज्ञा ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org