________________
आमुखम् (पूर्व संस्करण से)
एकदा कौशाम्बी-नरपतिना महाराजशतानीकेन चम्पायामाक्रमणमकारि। चम्पाधिपतिर्दधिवाहनो युद्धे मृत्युमवाप। शतानीकेनादिष्टं पुर्याध्वंसाय। सैनिका उच्छृखलभावेन नागरिकान् संत्रासयामासुः। अपजह्नः केचिद्धनं, केचिदाभूषणानि, केचिच्च वनिताजनम् । एको रथिको दधिवाहनस्य राज्ञी धारिणी, राजकुमारी वसुमतीञ्चापजहार। धारिणी वैशालीगणप्रमुखस्य चेटकस्य पुत्री, भगवतो महावीरस्य मातुलपुत्री चाभूत्। तस्याः सतीत्वं सुविश्रुतम्। तया रथिकस्य भोगेच्छापूर्तेरवसरोऽपि न दतः। तस्य विकारपूर्णामाकृतिं चेष्टाञ्च निभाल्य सहसैव जिह्वामाकृष्य प्राणोत्सर्गं चकार ।रथिक:स्तब्धतां जगाम । वसुमती चापि मातुरध्वानमनुसरेत्? इति संशयानः कम्पमानाधरो मृदुस्वरमनुरुरोध-भगिनि ! आश्वस्तां भव, विलीना मे कामवासना, कौशाम्बी गत्वा त्वां विक्रेतुमिच्छामि। नान्यास्ति कापि विकृतिरत्र । रथिकेन सा दासविपणौ विक्रयं नीता। ततः सा कयाचिद् वेश्यया क्रीता। असौ वेश्याकुलस्य निन्दितं कर्म कथमपि न स्वीचकार। तदा पुनरपि तयाऽसौ दासविपणौ विक्रीता। ततो धनावहनाम्ना श्रेष्ठिनाक्रीता । तस्यालये दास्याः कर्म कुर्वती सा समयमतिवाहयामास ।तेन तस्या नाम चन्दनबालेति चक्रे। एकदा धनावहस्य पत्न्या इति सन्देहोऽभूत्-मम पतिरिमां पत्नीरूपेण स्वीकरिष्यति । धनावहः प्रयोजनवशात् क्वापि बहिः प्रदेशे गतः। तत्पत्नी चावसरं विलोक्य चन्दनबालायाः शिरोमुण्डनमकार्षीत् । करौ चरणौ च श्रृंखलानिगडितौ कृत्वा एकस्मिन् विजनेऽपवरके स्थापयित्वा च तामन्यत्र जगाम।
इतो भगवान् महावीरः कौशाम्व्या गृह-गृहं पर्यटन्नपि भिक्षां नादत्ते। पञ्चमासाः पञ्चविंशतिदिनोत्तरा व्यतीताः। भगवान् षड्विंशतितमे दिवसे धनावहस्य
(vi)
अश्रुवीणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org