________________
-: प्रस्ता व ना :
भव्याम्भोरुहबोधने दिनकरस्त्रिंशत्समा भूतले मोहाज्ञानतमोभरं विघटयन् यो धर्मराज्यं व्यधात् ॥ यश्चाह्नाय निनाय जन्तुनिकरं खर्गापवर्गालयं स श्रीवीरजिनेश्वरो भवतु वै सङ्घस्य हि श्रेयसे ॥ - भारतीय - साहित्यम् -
प्रकृतकाव्यविषये प्रास्ताविकं किञ्चिद्यावन्निवेदयामि ततः पूर्वं भारतीयसाहित्यस्य खरूपाऽनिवेदने न किल प्रकृतसंदर्भशुद्धिर्भवेदिति साहित्यस्यास्य स्वरूपमंशतो निवेदयामि
-
भारतीयं किल साहित्यं विश्वसाहित्यम् । अस्माद्धि साहित्यात्सु - दूरदूरवर्तिष्वपि देशेषु - अन्यान्यभाषामयानि साहित्यानि कुत्रचिज्जननमवापुः, कुत्रचिच्चात्मनः संस्कारमकार्षुः । दृष्टान्तरूपेण गृह्यताम् – आर्यावर्त एवाविर्भूताद् बौद्ध संप्रदायात् कस्मिंश्चन समये ते ते ग्रन्थाः प्रादुर्भूताः, यैर्हि न केवलं भारतवर्ष एव अपि तु समुद्रपरपारवर्तिष्वपि देशेषु लोकानां हृदये स्वीयः प्रभावः प्रतिष्ठापितः । येषां प्रभावेणानुप्राणिताः सिंहल - ब्रह्म- चीन-जयप्राणदेशीया बौद्धाः प्रत्यक्षमेव नः प्रमाणम् ।
1
Jain Education International
न केवलमेतावदेव भारतीयसारस्वतभाण्डागारस्यालौकिकरलच्छया प्रलोभितहृदया निर्निमेषीकृतनेत्रद्वयाश्च अन्यान्यदेशीया विद्वांसः सुमहता परिश्रमेण भारतवर्षे समागत्य तांस्तान् ग्रन्थान् लिलिखुः । अत्रत्येभ्यः पण्डितेभ्यश्च पठित्वा खखभाषायां तान् ग्रन्था
2
For Private & Personal Use Only www.jainelibrary.org