SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ ॥ सादर - समर्पणम् ॥ अयि महानुभावास्तपोगच्छ गगनमार्तण्डाः ! सैद्धान्तिक - तार्किक - वैयाकरणसिद्धान्तचक्रवर्तिनः ! अविरतशास्त्र संशोधनकर्मनिरताः । निखिलमुनिमण्डलागमवाचनादातारः ! श्रीसिद्धक्षेत्रतीर्थे (आदर्श) शिलायां सूर्यपूरे त्वचिरादेव ताम्रपत्रेषु श्रीवर्द्धमान जैनागमशास्त्रारोहकर्त्तारः ! शैलानानरेशप्रतिबोधकाः ! पुण्यस्मरणीयाः ! बहुश्रुतागमोद्धारकागमदिवाकराचार्यवर्याः ! पूज्यपादाः १००८ श्रीमदानन्दसागरसूरीश्वराः ! तत्रभवतां भवतां सदुपदेशाद् - अद्ययावत्प्रकाशित प्राकृत संस्कृत - गौर्जरी - आङ्गलीयादिविविध – 'मूर्त्तिपूजक - जैन श्वेताम्बर - आगमादि' - शास्त्रसिद्धान्तग्रन्थकलापः ' श्रेष्ठ देवचन्द्र लालभ्रातृ ' इत्यभिधानः 'जैन - ग्रन्थोद्धारकोशागारः ' आगमप्रकाशनकारिणी श्रीमती ' आगमोदयसमिति 'नाम्नी संस्था च प्रादुर्भूय महोपकारकं प्रकाशनकार्यं सततं कुर्वीतेतराम् एवंगुणविशिष्टानां अत एव परोपकारप्रवणानां तत्रभवतां पवित्रकर कमलेषु सानुनयं समयेतेऽस्माभिरिदं कलिकाल सर्वज्ञभगवच्छ्रीमद्धे मचन्द्राचार्यप्रणीत श्रीसिद्ध हेमचन्द्रशब्दानुशासन वृहद्वृच्यवचूर्णि ( दुर्गपद विवरण) नामकं प्रन्थरत्नं स्वीकुर्वन्तु चास्मदुपरिसततं दयावारिधयो भवन्त इति सप्रश्रयं विज्ञपयित्वा वयं विरमामः । मोहमयी, इस्वी० १९४७ विक्रमसंवत २००४ तमे कार्तिकमासे पूर्णिमायां शुक्रवासरे. Jain Education International भवदीयचरणेन्दीवरे मिलिन्दायमाना: ' चोकसी 'त्युपाही मगनभाईतनुजो मोतीचन्द्रः श्रेष्ठि देवचन्द्र लालभाई जैन पुस्तको द्वार - कोशागारस्य अन्ये माननीय सञ्चालकाश्च. For Private & Personal Use Only www.jainelibrary.org
SR No.003041
Book TitleSiddha Hemchandra Shabdanushasan
Original Sutra AuthorN/A
AuthorChandrasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1948
Total Pages396
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy