________________
( 299 )
तीर्थेश्वरस्य कमठस्मयधूमकेतो- स्तस्यादमेष कि संस्तवनं करिष्ये ॥ २ ॥ युग्मम् ॥ सामान्यतोऽपि तव वर्णयितुं स्वरूपमस्मादृशाः कथमधीश ! नवन्त्यधीशाः ? | धृष्टोऽपि कौशिकशिशुर्यदि वा दिवान्धों, रूपं प्ररूपयति किं किल घर्मरश्मेः ? ॥३ ॥ मोहदयादनुजवन्नपि नाथ ! मत्त्र्यो, नूनं गुणान् गणयितुं न तव दमेत । कल्पान्तवान्तपयसः प्रकटोsपि यस्मान्मीयेत केन जलधेर्ननु रत्नराशिः ? ॥ ४ ॥ अयुद्यतोऽस्मि तव नाथ ! जडाशयोऽपि कर्त्तुं स्तवं लसदसंख्यगुणाकरस्य । बालोऽपि किं न निजबाहुयुगं वितत्य, विस्तीर्णतां कथयति स्वधियाऽम्बुराशेः ? ॥ ५ ॥ ये योगिनामपि न यान्ति गुणास्तवेश !, वक्तुं कथं जवति तेषु ममावकाशः ? | जाता तदेवमसमीक्षितकारितेयं, जल्पन्ति
१२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org