________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचितंश्रीमहर्षिप्रथित
___ मनुवादावचूर्णिविवरणसमेतम् - श्रीवीतरागस्तोत्रम् ।
यः परात्मा परंज्योतिः, परमः परमेष्ठिनाम् । आदित्यवर्णं तमसः, परस्तादामनन्ति यम् ॥१॥ सर्वे येनोदमूल्यन्त, समूलाः क्लेशपादपाः । मूर्ना यस्मै नमस्यन्ति, सुरासुरनरेश्वराः ॥२॥ प्रावर्त्तन्त यतो विद्याः, पुरुषार्थप्रसाधिकाः । यस्य ज्ञानं भवद्भाविभूतभावावभासकृत् ॥३॥ यस्मिन्विज्ञानमानन्दं, ब्रह्म चैकात्मतां गतम् । स श्रद्धेयः स च ध्येयः, प्रपद्ये शरणं च तम्॥४॥ तेन स्यां नाथवाँस्तस्मै, स्पृहयेयं समाहितः । ततः कृतार्थों भूयासं, भवेयं तस्य किङ्करः ॥५॥ तत्र स्तोत्रेण कुर्यां च, पवित्रां खां सरस्वतीम् । इदं हि भवकान्तारे, जन्मिनां जन्मनः फलम्॥६॥
१०काङ्गतां अ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org