________________
२५२
Jain Education International
कल्याणमन्दिरच्छायास्तोत्रम्
कान्ति- प्रताप-यशसां जगत्पूरणपिण्डिताः । सञ्चया मणि-कल्याण - तारवप्राणि भान्ति ते ।। २७ ॥ मौलीन यदि सुरेन्द्राणां त्यक्त्वा तव पदोः स्थिताः । सुमस्रजः सुमनसां त्वदन्यत्र न रागिता ॥ २८ ॥ तारयेः पृष्टिसंलग्रान् भवाब्धिविमुखोऽपि यः । स पार्थिवनिपात्माऽपि, अहो कर्मविपाकमुक् ॥ २९ ॥ स्वामी सना दरिद्रो हि, अक्षरात्माऽसि चालिपिः । विशदं ज्ञानमास्ते ते, देवाज्ञानवतः सतः ॥ ३० ॥ दैत्येन रेणुभिर्मुक्तै- छायाऽपि तव का हता ? । रोषान्धकारसंवेशैः, शठो ग्रस्तः स केवलम् ॥ ३१ ॥ घनतर्जितडित्पात - धारामुशलमीपणम् । मुक्त्वा महाजलं प्राप, स महाजलतां पुनः ॥ ३२ ॥ कीर्णकेशदुराकार-मुण्डखगनलाननम् । त्वयि प्रेतत्रजं कृत्वा, सोऽवपत् प्रेत्यपातिताम् ॥ ३३ ॥ भजन्ते पादपद्मं ते, भक्त्युच्छ्रसितकण्टकाः । निःशेषकुतुकोद्विद्मा, धन्या वित एव हि ॥ ३४ ॥ त्वामिहापारसंसारे, शङ्के नाशृणवं पुरा ।
श्रुते त्वन्नाम्नि वामेय !, निकषा कान् विपश्यहिः १ ॥ ३५ ॥ कामदं त्वत्पदाम्भोजं मन्ये न महितं मया । इति पङ्ककलङ्कानां, जातोऽहमिह मन्दिरम् || ३६ || मोहावतमसस्थस्य, दृश्योsभूर्न कदापि मे । मर्माविधः पीडयन्ति, मामनर्थाः किमन्यथा । ॥ ३७ ॥ श्रुत- पूजित - दृष्टोऽपि न सम्यग् भावितोऽसि मे । पातकैरिति लिप्ये यद्, भावशून्या क्रियाफला ॥ ३८ ॥ विश्ववत्सल ! निर्लोभ !, शरण्य ! करुणापते ! । भक्तिभाजमिदानीं मा - मदुःखाङ्कुरितं कुरु ।। ३९ ।। सत्यं सर्वस्य शरणं, त्वामपि प्राप्य दैवतम् । प्रमादी यदि वध्योऽस्मि, हा हतोऽस्मि गतिः क्क मे १ ॥ ४० ॥ देवेन्द्रवन्द्य ! सर्वज्ञ !, दयालो ! नाथ ! तायितः ! । व्यसनेभ्योऽतिसीदन्तं पितः । पाहि पुनीहि माम् ॥ ४१ ॥
For Private & Personal Use Only
www.jainelibrary.org