________________
क-परिशिष्टम् श्रीरत्नमुनिसन्दब्धं सटिप्पनकं ॥ भक्तामरच्छायास्तोत्रम् ॥
नम्रदेवशिरोरत्न-भासकं जिनपत्कजम् । प्रणम्याखिलपापघ्नं, संसारजलतारणम् ॥१॥ सर्वशास्त्रपरिज्ञानात् , संस्तुतो यः सुरेश्वरैः । उदाररुचिरस्तोत्रैः, स्तोष्ये तं प्रथमं प्रभुम् ॥२॥ प्रभो ! बुद्ध्या विनाऽपि त्वां, स्तुवानोऽस्मि गतत्रपः । वारिकुण्डस्थितं चन्द्र, बालः किं न हि लिप्सति ? ॥३॥ धिषणोऽपि गुणाम्भोधे !, गुणांस्ते ख्यातुमक्षमः । दुर्वायूद्भूतयादस्कः, सागरः केन तीर्यते ? ॥ ४ ॥ तथापि सोऽहं त्वद्भक्ते-स्तवास्मि स्तवसोद्यमः। निर्विवेकोऽर्भकान् पातुं, मृगो नाभ्येति किं हरिम् ? ॥ ५॥ समुखत्वं भवत्पाद-प्रसादादेव भाति मे। प्राप्ताम्रकलिकास्वादः, कलं कूजति कोकिलः ॥६॥ त्वत्स्तुत्याऽनादिजं पापं, प्राणिनां क्षीयते क्षणात् । मार्तण्डकिरणस्पृष्टं, नाशं याति निशातमः ॥७॥ इति मत्वाऽऽरभे स्तोत्रं, तव विद्वन्मनोहरम् । अरविन्देषूदबिन्दु-मौक्तिकद्युतिमश्नुते ॥ ८॥ आस्तां स्तवस्ते निर्दोष-स्त्वद्वार्ताऽपि शिवकरी । प्रभाऽपि कुरुते भानो-र्विकचान्यम्बुजानि यत् ॥९॥ दुर्घटं किमु जायन्ते, यदि त्वमिव तावकाः। भृत्यं वा स्वसमं भूत्या, यो न निर्माति तेन किम् ? ॥१०॥ त्वां परं दृश्यमालोक्य, चक्षुर्नान्यत्र रज्यते । क्षीरसिन्धुपयः पीत्वा, क्षाराब्भ्यम्बु क ईहते ? ॥ ११ ॥ कारितोऽसि ललामात्मा, जगतां येन कर्मणा । तावन्त एव तस्यांशा-स्त्वत्तुलाऽन्यत्र नास्ति यत् ॥ १२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org