________________
१७१
श्रीसिद्धसेनदिवाकरकृतम् खामिन्ननल्पगरिमाणमपि प्रपन्ना
स्त्वां जन्तवः कथमहो हृदये दधानाः । जन्मोदधिं लघु तरन्त्यतिलाघवेन
चिन्त्यो न हन्त महतां यदिवा प्रभावः ॥ १२ ॥ क० वि०-हे स्वामिन् ! जन्तवस्त्वां प्रपन्ना हृदयेऽनल्पगरिमाणमपि त्वां दधाना अहो कथमतिलाघवेन जन्मोदधिं तरन्तीत्यन्वयः । कवुक्तिः । हे 'स्वामिन्' ! हे प्रभो!। 'जन्तवः' देहिनः । त्वां' भवन्तम् । 'प्रपन्नाः' स्वामित्वेनाश्रिताः सन्तः । 'हृदये' निजमानसे । 'अनल्पगरिमाणमपि' अतिबहुप्रौढिमानमपि । गुरोर्भावः गरिमा,न अल्पः अनल्पः, अनल्पो गरिमा यत्र सोऽनल्पगरिमा तं 'बहुव्रीहिः । त्वाम् । 'दधानाः' धरन्तः । अहो इत्याश्चर्ये । कथमिति प्रश्ने । 'अतिलाघवेन' अल्पस्यापि भारस्याभावादतिलघुत्वेन । लघो
र्भावः लाघवम् , अतिशयेन लाघवमतिलाघवं तेन । 'जन्मोदधि' भवसमुद्रमित्यर्थः । जन्मैचोदधिः जन्मोदधिस्तं 'तत्पुरुषः' । 'लघु' शीघ्रम् । तरन्ति । ये महान्तं भारं वहन्ति ते कथं समुद्रं तरन्ति ? । महदाश्चर्यमेतत् । यदिवा महतां प्रभावो हन्त न चिन्त्यो वर्तते । कर्चुक्तिः । 'यदिवा' अथवा । 'महतां' जगत्रयप्रकृष्टानाम् । 'प्रभावः' माहात्म्यम् । हन्तेति निश्चयेन । न चिन्त्यः चिन्तनाहश्चिन्त्यो-न विचार्यः, मनसा महतां माहात्म्यं चिन्तयितुं न शक्यते, बहुत्वात् । इति द्वादशवृत्तभावार्थः ॥१२॥
मा०वि०-खामिन्निति । हे स्वामिन् ! अनल्पगरिमाणं अपि त्वां हृदये दधानाः प्रपन्ना जन्तवः जन्मोदधिं लघु-शीघ्रं यथा स्यात् तथा अहो आश्चर्य कथं तरन्ति ? 'तरन्ति' इति क्रियापदम् । के कर्तारः? 'जन्तवः' । किं कर्मतापन्नम् ? 'जन्मोदधिं' भव. समुद्रम् । जन्तवः किं कुर्वाणाः? 'दधानाः' । कस्मिन् ? 'हृदये।कम् ? 'त्वाम् । त्वां कथम्भूतम् ? गुरोर्भावो गरिमा गुरुत्वमित्यर्थः, न विद्यते अल्पो गरिमा यस्य सः अनल्पगरिमा तं 'अनल्पगरिमाणम्' । कथम् ? 'अपि' । जन्तवः किंलक्षणाः? 'प्रपन्नाः' आश्रिताः। कथम्? 'लघु' । केन? 'अतिलाघवेन' अतिलघुतया । अयं भावः-लघुपदार्थ तुम्बादिकं हृदये दधानो जन्तुर्जलं तरति । अत्र-इह आश्चर्यम्-त्वां यद् अनल्पगरिमाणं हृदये दधाना जन्तवो जन्मोदधिं तरन्ति । इदं व्याख्यानं गुरुशब्दस्य व्यर्थत्वात् शब्दच्छलेन बोध्यं बहुपुद्गलोपचितः पदार्थों गुरुः, गृणाति तत्त्वमिति वा गुरुः इति गुरुशब्दस्य ध्यर्थता । यदिवेति पक्षान्तरे । हन्त इति हर्षे । महतां प्रभावो-महिमा न चिन्त्यः-न चिन्तनीयः । 'चिन्त्यः' इति क्रियापदम् । कथम् ? 'न' । कैः कर्तृभिः? 'पण्डितैः' (अध्याहार्य पदमिदम्)। कः कर्मतापन्नः? 'प्रभावः' । केषाम् ? 'महताम् । कथम्? 'यदिवा'। कथम्? 'हन्त' । त्वमपि महान् वर्तसे तेन तवापि अचिन्त्यमहिमवत्त्वमिति भावः ॥ . १ 'जगत्प्रकृष्टानाम्' इति घ-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org