________________
१६०
कल्याणमन्दिरस्तोत्रम् क० वृ०-हे नाथ! जडाशयोऽप्यहं तव स्तवं कर्तुमभ्युद्यतोऽस्मि । कर्तर्युक्तिः । अहं किंलक्षणोऽपि ? 'जडाशयोऽपि' अज्ञोऽपि । जड आशयो यस्य सः (जडा०) 'बहुव्रीहिः'। अहं किंलक्षणः? 'अभ्युद्यतः' कृतोद्यमोऽस्मि । किं कर्तुम् ? 'कर्तुम्' । कं कर्मतापन्नम् ? 'स्तवं' स्तोत्रम् । कस्य ? 'तव' । तव किंलक्षणस्य ? 'लसदसङ्ख्यगुणाकरस्य' 'दीप्यदसङ्ख्येयगुणखानेः । न विद्यते सङ्ख्या येषां तेऽसङ्ख्याः 'बहुव्रीहिः', असङ्ख्याश्च ते गुणाश्च असङ्ख्यगुणाः 'कर्मधारयः', लसन्तश्च ते असङ्ख्यगुणाश्च लसदसङ्ख्यगुणाः 'कर्मधारयः', लसदसङ्ख्यगुणानामाकरो लसदसङ्ख्यगुणाकरस्तस्य 'तत्पुरुषः' । अत्रार्थे दृष्टान्तमाहबालोऽपि निजबाहुयुगं वितत्य अम्बुराशेविस्तीर्णतां स्वधिया किं न कथयति? अपि तु कथयति । कर्तयुक्तिः । 'बालः' मूर्खः शिशुश्च प्रोच्यते ततोऽयमर्थः-एकं तावच्छिशुरपरं च मूर्खः सोऽपि । 'निजबाहुयुग' स्वभुजयुगलम् । बाह्वोर्युगं बाहुयुगं 'तत्पुरुषः', निजं च तत् बाहुयुगं च निजबाहुयुगं 'कर्मधारयः' । 'वितत्य' विस्तार्य । 'स्वधिया' स्वबुद्ध्या । स्वस्य धीः स्वधीस्तया 'तत्पुरुषः' । 'अम्बुराशेः' समुद्रस्य । अम्बुनो राशिर्यत्र सोऽम्बुराशिस्तस्य 'बहुव्रीहिः' । 'विस्तीर्णतां' विशालताम् । विस्तीर्णस्य भावो विस्तीर्णता ताम् । किं न कथयति ? अपि तु समुद्रविस्तारं निजबुद्ध्या बालोऽपि बाहुप्रसारणेन कथयति, तथा बालवदहमपि स्तोतुमुद्यतोऽस्मि । इति पञ्चमवृत्तार्थः॥५॥
मा०वि०-अभ्युद्यतोऽस्मीति । हे नाथ ! अहं जडाशयोऽपि तव स्तवं कर्तु अभ्युद्यतोऽस्मि-उद्यमवान् जातोऽस्मि । 'अस्मि' इति क्रियापदम् । कः कर्ता ? 'अहम्' । किलक्षणः ? 'अभ्युद्यतः' । अहं किंलक्षणः ? 'जडाशयः' । किं कर्तुम् ? 'कर्तुम्' । कं कर्मतापनम् ? 'स्तवम्' । कस्य ? 'तव' । तव किंलक्षणस्य ? 'लसदसङ्ख्यगुणाकरस्य' लसन्तोदीप्यमाना ये असङ्ख्यगुणाः तेषामाकरः-खानिः तस्य । जडाशयः सन् स्तोत्रे कथं प्रवृत्तस्तदर्थे दृष्टान्तमाह-बालोऽपि किं निजबाहुयुगं वितत्य स्वधिया अम्बुराशेः-समुद्रस्य विस्तीर्णतां-पृथुलतां न कथयति ? अपि तु कथयति, तथा अहमपि स्वबुद्ध्यनुसारेण तव स्तवं कर्तुमभ्युद्यतोऽस्मीति भावः । 'कथयति' इति क्रियापदम् । कथम् ? 'न'। काकूत्या निषेधेऽपि अङ्गीकार एव सूच्यते । कः कर्ता ? 'बालः' । कथम् ? 'अपि' । कां कर्मतापन्नाम् ? 'विस्तीर्णताम्' । कस्य ? 'अम्बुराशेः' । कया? 'स्वधिया' । किं कृत्वा? 'वितत्य' । किं कर्मतापन्नम् ? 'निजबाहुयुगम् ॥ __ अभिउद्पूर्वो 'यमूं उपरमे' (सिद्ध० धा०) यम्धातुः क्तप्रत्ययः 'यमिरमिनमिगमि०' (सिद्ध० ४-२-५५) इति सूत्रेण मलोपः संहितायां प्रथमा सौ अभ्युद्यत इति सिद्धम् । 'असक् भुवि' (सिद्ध० धा० ) अस्(धातुः), 'वर्तमाना मित्' (सिद्ध० ३३-६) अस्मीति सिद्धम् । जड आशयः-चित्ताभिप्रायो यस्य स जडाशयः। 'डुकंग् करणे' (सिद्ध० धा०) कृधातुः, तुम्प्रत्ययः, करणाय कर्तुं गुणः 'अव्ययस्य' (सिद्ध०
'दीप्यमानास०' इति प्रतिभाति । २ 'वृत्तभावः' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org,