________________
१४४
भक्तामरस्तोत्रवृत्तिः उभिद्रहेमनवपङ्कजपुञ्जस्य कान्तिरुन्निद्रहेमनवपङ्कजपुञ्जकान्तिः 'तत्पुरुषः', नखानां मयूखा नखमयूखाः 'तत्पुरुषः', नखमयूखानां शिखा नखमयूखशिखाः 'तत्पुरुष', पर्युल्लसन्त्यश्च ता नखमयूखशिखाश्च पर्युल्लसन्नखमयूखशिखाः 'कर्मधारयः', उन्निद्रहेमनवप
जपुञ्जकान्त्या पर्युल्लसन्नखमयूखशिखाः उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाः 'तत्पुरुषः', उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरभिरामौ उन्निद्रहेमनवपङ्कजपुञ्जकान्तिपर्युल्लसन्नखमयूखशिखाभिरामौ 'तत्पुरुषः' । इति द्वात्रिंशतमवृत्तार्थः॥ ३२॥
अथ संक्षिपति-(इत्थमित्यादि)। व्याख्या-हे 'जिनेन्द्र ! जिनानामिन्द्रो जिनेन्द्रस्तस्य सम्बोधनं 'तत्पुरुषः । इत्थंपूर्वोक्तप्रकारेण यथा धर्मोपदेशनविधौ-धर्मव्याख्याक्षणे, धर्मस्योपदेशनं धर्मोपदेशनं 'तत्पुरुष', धर्मोपदेशनस्य विधिर्धर्मोपदेशनविधिस्तस्मिन् 'तत्पुरुषः', तव विभूतिः अतिशपरूपा समृद्धिरभूत्-जाता तद्वत् अपरस्य-ब्रह्मादिसुरस्य नाभूत् । अत्र दृष्टान्तमाहदिनकृतः-सूर्यस्य, दिनं करोतीति दिनकृत् तस्य 'तत्पुरुषः', प्रहतान्धकारा-ध्वस्तध्वान्ता, प्रहतमन्धकारं यया सा प्रहतान्धकारा 'बहुव्रीहिः', यादृग्-यादृशी प्रभा-द्युतिर्वर्तते 'विकाशिनोऽपि' विकाशोऽस्यास्तीति विकाशी तस्य उदितोद्योतस्यापि 'ग्रहगणस्य' प्रहाणां गणो ग्रहगणस्तस्य 'तत्पुरुषः', भौमादेस्तादृक्-तादृशी प्रभा कुतः कस्माद् भवति? । अपि तु मैव । इति त्रयस्त्रिंशत्तमवृत्तार्थः ॥ ३३॥
अथ गजभयहरं जिनं स्तौति-(श्योतन्मदेत्यादि)। व्याख्या-हे गजपतिगते ! भवदाश्रितानां त्वच्चरणस्थितानां भवन्तमाश्रिता भवदाश्रितास्तेषां 'तत्पुरुषः', एवंविधानां नराणामिति शेषः, भयं-भीतिर्नो भवति-न स्यात् । किं कृत्वा ? 'दृष्ट्वा' वीक्ष्य । कं कर्मतापन्नम् ? । 'इभं' गजम् । किंभूतमिभम् ? 'ऐरावसाभं' महाकायत्वादैरावणसमम् । ऐरावतवदाभा यस्य स ऐरावताभस्तं 'बहुव्रीहिः । पुनः किलक्षणमिभम् ? 'उद्धतम्' अविनीतम् । इभं किं कुर्वन्तम् ? 'आपतन्तं सन्मुखमागच्छन्तम् । पुनः किंलक्षणमिभम् ? 'योतन्मदाविलविलोलकपोलमूलमसभ्रमभ्रमरनादविवृद्धकोप' गण्डौ मेत्रे करो मेदूं गुदमिति सप्तसु स्थानेषु श्योतताक्षरता मनाविला-कलुषा विलोला चश्चला कपोलमूले-गण्डप्रदेशे मत्ता:-क्षीबाः सन्तो 'मतवाला' इति लोकप्रसिद्धि (खाः) (भ्रमन्त:-) भ्रमणशीला ये भ्रमरास्तेषां नादेन कठोरध्वनिमा विपना-पुष्टिं गतः कोपा-क्रोधो यस्य स तम् । श्वोतंश्चासौ मदश्च श्योसम्मदः 'कर्मधारवा', श्योतन्मदेनाविलाः श्योतन्मदाधिलाः 'तत्पुरुषा', कपोलयोर्मूले कपोलमूले "सहरूपा, सपोलमूरूषोत्ताः कपोलमूलमत्ताः 'ततुरुषा', भ्रमन्तश्च ते अमरीका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org