________________
श्रीमानतुङ्गसूरिविरचितम्
१२३ सद्गद्यपद्यसुकविः कवितत्त्वधाता ___ चारित्रचारुकरणः करणास्तकामः। तत्पभूषणमणिर्गतदूषणोऽभूत्
श्रीमान् मुनीन्द्रगुणचन्द्रगुरुगरिष्ठः॥४॥-वसन्ततिलका सम्प्रत्यवनौ जयिनां, निर्देशादभयदेवसूरीणाम् ।। गुणचन्द्रसूरिशिष्यो, गुणाकरः सूरिरल्पमतिः ॥ ५॥-आर्या अद्भतमहतीर्दधतीं, बहश्रतमुख श्रुताः प्रभावकथाः। भक्तामरस्तवस्या-भिनवां वृत्तिं व्यधादेनाम् ॥ ६ ॥-आर्या वर्षे षड्रिंशाधिक-चतुर्दशशती(१४२६)मिते च वर्षौ। मासि नभस्ये रचिता, 'सरस्वती'पत्तने वृत्तिः॥ ७ ॥-आर्या यद् गदितमर्थकूटं, यल्लक्षणशब्दतश्च दुष्टमिह ।। तत् साधुभिः सुधीभिः, शोध्यं सद्यः प्रसद्य मयि ॥ ८॥-आर्या भक्तामरस्तवाक्षर-विवृत्तिं कृत्वा यदर्जितं सुकृतम् । तेनासौ सुकृतिजनो, निरामयः स्यात् सदाऽऽनन्दी ॥९॥-आर्या पञ्चदशशतान्यत्र द्वासप्ततिसमधिकानि गणितानि ।
निःशेषवर्णवृन्दा-न्यनुष्टुभां प्रायशः सन्ति ॥ १०॥ ग्रन्थाग्रं १५७२ सकलाक्षरगुणनयेति ॥ इति सम्पूर्णा भक्तामरस्तवविवृत्तिः॥ मे० वृ०-अथ कविः स्वनामसूचापूर्व स्तोत्रमाहात्म्यसर्वस्वमाह-(स्तोत्रेत्यादि)।
हे जिनेन्द्र ! तं पुरुषं अवशा-शीनं लक्ष्मीः समुपैति । सं-सम्यक्प्रकारेण उपैति-व्याप्नोतीत्यर्थः । 'समुपैति' इति क्रियापदम् । का की ? 'लक्ष्मीः ' । कं कर्मतापन्नम् ? 'तं पुरुषम्' । कथम् ?
अवशा' शीघ्रार्थे अव्ययम् , यद्वा कीदृशी लक्ष्मीः ? 'अवशा' व्याहृतचित्ता । कीदृशं तम् ? 'मानतुङ्ग' मानेन-ज्ञानेन बहुमानेन वा तुझं-प्रौढम् । तच्छब्दो यच्छब्दमपेक्षते । तं कम् ? यः पुरुषइह लोके तव स्तोत्रमजं अजस्रं कण्ठगतां धत्ते-बिभर्ति । 'धत्ते' इति क्रियापदम् । कः कर्ता ? 'यः पुरुषः' । कां कर्मतापन्नाम् ? 'स्तोत्रस्रज' स्तवनलक्षणां मालाम् । कीदृशीम् ? 'कण्ठे गां' प्राप्ताम् । कथम् । 'अजस्रं' निरन्तरम् । कस्य ? 'तव' अर्थादेतां प्रस्तुताम् । कीदृशीम् ? 'गुणैः' ज्ञानौदार्यादिभिर्भक्त्या मया-कविना (नि)बद्धाम् , अन्याऽपि या सक् भवति सा गुणैः-दवरकैद्धा भवति, तां कण्ठे
...तत्वध्याता' इति ग-पाठः। २ ०व्याणुगुणा.' इति ग-पाठः। ३ 'सङ्कलनयेति' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org