________________
श्रीमानतुङ्गसूरिविरचितम्
१०७ ' तथा यद्यहं पूर्व स्त्रीवचसि नालगिष्यं, तदा रणे मानक्षति नाप्स्यम् । धिक् स्त्रीजातीयाः स्वार्थरताः अनर्थसार्थे क्षिपन्ति पुरुषम् । पुमानपि तदासकोऽचेतनो भवति । उक्तं च
"तावदेव पुरुषः सचेतन
स्तावदाकलयति क्रमाक्रमौ । यावदेव न कुरङ्गचक्षुषां ताड्यते चपललोचनाञ्चलैः ॥१॥"-रथोद्धता
अथ
"संपीड्येवाहिदंष्ट्राग्नि-यमजिह्वाविषाङ्कुरान् । जगजिघत्सुना नायः, कृताः क्रूरेण वेधसा ॥२॥-अनु० संसार! तव पर्यन्त-पदवी न दवीयसी।
अन्तरा दुस्तरा न स्यु-येदि रे मदिरेक्षणाः ॥३॥"-अनु० इत्यादि संचिन्त्य राज्ञा सामन्तैः सह पर्यालोच्य सज्जितो राज्याभिषेकविधिः। गुणवर्माणं सिंहासनेऽधिरोप्य तीर्थजलैरभ्यषिञ्चन्नरेन्द्रः । स्वयं वने जटाधारी जातः । स राजा 'मथुरायां' समेतः भ्रातृव्यादीनां राज्यविभागं दत्वा एकातपत्रं राज्यं निष्कण्टकं राज्यसुखमद्वैतमभजत् । निरन्तरगुरूपदेशश्रवणतीर्थयात्राकरणपरोपकारनिर्माणादिभिमनुष्यफलं जग्राह । जिनधर्म प्रभावयामास । पर्वतिथिषु प्रभूतदुरितखण्डनानि निरतिचाराणि सामायिकपौषधादिकव्रतानि पालयामास । श्रीयुगादिजिनादिप्रासादानचीकरद् गुणवर्मा जैननरेन्द्रः॥
॥ इति पञ्चविंशी कथा ॥ - मे० वृ० हे जिनेन्द्र! पुरुषा युद्धे जयं लभन्ते इत्यन्वयः। 'लभन्ते' इति क्रियापदम् । के कर्तारः? "पुरुषाः' इत्यध्याहारः । कं कर्मतापन्नं ? 'जयं' सर्वतोऽभ्युदयम् । कीदृशाः पुरुषाः ? 'त्वत्पादपङ्कन जवनाश्रयिणः' तव चरणस्वरूपकमलवनाश्रयभाजः । कमलवनाश्रयात् अत्यन्तसौकुमार्यख्यापनेन लीलयैव जयप्राप्तिरित्यतिशयालङ्कारः । पुनः कीदृशाः पुरुषाः ? 'विजितदुर्जयजेयपक्षाः' पराभूतदुर्द्धरवैरिसमूहाः । कस्मिन् ? 'युद्ध' । कीदृशे? 'कुन्ताग्रभिन्नगजशोणितवारिवाहवेगावतारतरणातुरयोधभीमे' । अस्यार्थः समासादेव, स चैवम्-कुन्ता-भल्लास्तेषां अप्राणि तैर्भिन्ना-विदारिता ये गजास्तेषां शोणितानि-रुधिराणि तान्येव वारीणि-जलानि तेषां वाहाः-प्रवाहास्तेषु वेगेन अवतार-उत्तरणं तस्मात्
१ रथोद्धता-लक्षणम्
"रात्परैर्नरलगै रथोद्धता"। २.विचिन्त्य' इति ख-पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org