________________
श्रीमानतुङ्गसूरिविरचितम्
" तुल्यार्थं तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् । अर्धराज्यहरं मित्रं, यो न हन्यात् स हन्यते ॥
॥" - अनु०
राजोवाच- देवि ! सोदरे कथं विरूपं करोमि ? । दुर्लभो भ्राता । उक्तं च" देशे देशे कलत्राणि, देशे देशे च सूनवः ।
तं देशं नैव पश्यामि यत्र भ्राता सहोदरः ॥ १ ॥”
देव्योचे - रिपुरुपे का सौदर्यबुद्धि: ? । अस्मिन् सति त्वत्पुत्राणां क्व राज्यम् ? त्वत्पुरतस्तवान्वये राज्यं गतम् । तव नामापि कश्चिन्न ग्रहीता । अथ सोदरत्वान्न हंसि, तर्हि राज्यादेककं निःसारयेत्युक्ते मन्दीभूतो बन्धुस्नेहः । उक्तं च
" तावद् बन्धुमनोभूमौ रम्या स्नेहवनावली ।
यावन्न ज्वलति स्त्रीणां, विश्लेषवचनानलः ॥ १ ॥ " - अनु०
१०६
आहूय सेनान्यमवम् राजा-भद्र ! गुणवर्मणे देशत्यागं ब्रूहि । तेन गत्वा उक्तो राजादेशः । कुमारोऽशुभस्य कालहरणं न विक्रमावसर इत्यादि विमृश्य निरगान्नगरात् । तदा तस्य निःसरणक्षणे वर्षर्तुरवर्तत । राज्ञीवचोवृत्तिभिरिवान्धकारितं सर्वदिग्भिः । दुर्जनमनोभिरिव गर्जितं जलधरैः । राजदुःप्रीत्येव क्षणदृश्यया लसितं चपलया । सुजनाश्रुतत्येव जृम्मितमासारधाराधोरण्या । भूपप्रतापैरिव नष्टं सूकरैः ( ग्रन्थानं १३०० ) 1 रणकेतुकीर्तिपूरैरिवान्तर्हितं चन्द्रांशुभिः । पापपाखण्डिभिरिव ताण्डवितं शिखण्डिभिः । तास्तृणवल्ली कन्दमूललताङ्कुरवर्धिन्यो नदीनदसरस्सु वारिविस्तारिण्यो वर्षाः कलिमनुचक्रुः । उक्तं च
Jain Education International
"सर्वत्रोद्गतकेन्दला वसुमती वृद्धिर्जडानां परा जातं
कमलं जगत् मलिनैर्लब्धा घनैरुन्नतिः । सर्पन्ति प्रतिमन्दिरं द्विरसनाः संत्यक्तमार्गो जनो
वर्षाणां च कलेश्च सम्प्रति जयत्येकैव राज्यस्थितिः ॥ १ ॥ " - शार्दूल०
स वनं भ्रमन् स्वस्य मनोवत् तुङ्गं दानवद् विशालं कृत्यवत् सफलं भाववन्निर्झरजलार्द्रं भूधरमारूढः । तत्र कन्दरायां कन्दफलाशनः पत्रिंशच्छास्त्राभ्यासी स्तवं पञ्चपरमेष्ठिमन्त्रं च स्मरन्नस्थात् । एकोनचत्वारिंशद्वृत्तापक्षणे प्रकटीभूयाप्रतिचक्रा वरमदात् तस्मै । स प्राज्यमजय्यं राज्यमयाचत । देव्या राज्यवरो दत्तोऽजेयश्च कृतः । देवी तिरो
। अथ तस्य धर्मवन्निर्मलश्चन्द्रमरीचिभिः कीर्तिवत् कुवलयानन्दनः शुभभाग्यवत् सफलितभूतलः स्वान्तवृत्तिवद् विजयदशमी बलिराजादिपर्वभिः कृतसज्जन हर्ष कुतूहला
१ कन्दलं = (१) नवाङ्कुरः; (२) तिरस्कारः; कन्दल: = बाहुयुद्धम् । २ डलयोः सावर्ण्यात् जलानां वारीणाम् । ३ निर्धनम् । ४ सर्पाः; दुर्जनाः । ५ 'सुमनोवत्' इति क- पाठः ।
।
भ० १४
For Private & Personal Use Only
www.jainelibrary.org