________________
श्रीमानतुङ्गसूरिविरचितम् अथ संक्षिपति
इत्थं यथा तव विभूतिरभूजिनेन्द्र ! __ धर्मोपदेशनविधौ न तथा परस्य । यादृक् प्रभा दिनकृतःप्रहतान्धकारा
तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३ ॥ गु० वि० हे जिनेन्द्र ! इत्थं-पूर्वोक्तप्रकारेण यथा-यद्वद् धर्मोपदेशनविधौ-धर्मव्याख्याक्षणे तव विभूतिः-अतिशयरूपा समृद्धिरभूत् तथा तद्वत् परस्य-ब्रह्मादिसुरस्य नासीत् । अत्र दृष्टान्तः-दिनकृतः-सूर्यस्य प्रहतान्धकारा-ध्वस्तध्वान्ता यादृग्-यादृशी प्रभा वर्तते विकाशिनोऽपि-उदितस्यापि ग्रहगणस्य-भौमादेस्तादृक्-तादृशी प्रभा कुतःकस्माद् भवति?।
चतुस्त्रिंशदतिशया यथा-स्वेदमलरोगमुक्तं सद्गन्धरूपयुक्तं वपुः १ पद्मगन्धः श्वासः २ रुधिरमांसौ क्षीरधाराधवलौ सुरभी च ३ आहारनीहारावदृश्यौ ४ चेति जन्मभवाश्चत्वारः ४ ॥ योजनमिते भूप्रदेशे नरतिर्यक्सुरकोटाकोटेरवस्थानं १ चतुःक्रोशनादिनी सर्वभाषानुवादिनी भगवद्वाणी २ पृष्ठभामण्डलं ३ क्रोशपञ्चशतीमिते क्षेत्रे न दुर्भिक्षं ४ न रोगाः ५ न वैरं ६ न ईतयः ७ न मारिः ८ नातिवर्षणं ९ नावर्षणं १० न स्वचक्रपरचक्रजं भयं ११, एते चैकादश केवलोत्पत्तेरनन्तरं कर्मक्षयोत्थाः ११॥ गगने तीर्थकृत्पुरो धर्मचक्र १ चामरयुगं २ पादपीठयुतं मणिसिंहासनं ३ छत्रत्रयं ४ रत्नखचितो महेन्द्रध्वजः ५ चरणन्यासे नव हेमपद्मानि ६ प्राकारत्रयं ७ चतुर्मुखरचना ८ चैत्यवृक्षः ९ अधोमुखतया कण्टकानामवस्थानं १० तरुनमनं ११ दुन्दुभिध्वनिः १२ पृष्ठानुपाती पवनः १३ प्रदक्षिणं ददानाः शकुनाः १४ गन्धजलवृष्टिः १५ पञ्चवर्णपुष्पवृष्टिः १६ नखकेशरोम्णः सहजावस्थानं व्रतात् परतोऽवर्धनं १७ चतुर्विधामराणां जघन्येऽपि पार्श्वे कोटीस्थितिः १८ षड्ऋतूनां शब्द-रूप-रस-गन्ध-स्पर्शानां चानुकूलता १९, एते एकोनविंशतिर्देवकृता अतिशयाः १९ ॥ एवं सर्वमीलनाच्चतुस्त्रिंशदतिशयर्द्धिादशी जिने तादृशी ब्रह्मादौ कुतः? । तेषां सरागत्वान्न कर्मक्षयः । कर्मक्षयं विना न उत्तमोत्तमता। तां विना प्रातिहार्यद्धैरभाव इति स्थितम् ॥
अथ मन्त्रः
ॐ ह्रीं श्रीं कलिकुण्डदण्डस्वामिन् ! आगच्छ २ आत्ममन्त्रान् रक्ष २ परमन्त्रान् छिन्द २ मम सर्वसमीहितं कुरु २ हुंफट् स्वाहा । एतजापात् सकलसम्पदो भवन्ति । जापः सहस्र१२रक्तश्वेतपुष्पैः कार्यः । गुरूपदेशाद् विधिज्ञेयः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org