________________
७२
भक्तामरस्तोत्रम् देवी नमन्नस्मि । साऽऽह-किं मोघेन श्रीनमनेन ? स्वयंवरां मामङ्गीकुरु, भज भोगान् , त्यज दौःस्थ्ययोगान् । स आह स्म-त्वं मे माता, एतन्नर्मणाऽपि न वाच्यम् , कर्मणा किमु. च्यते? । परस्त्रियो जनन्यो मे व्रतमस्ति । पुनः पुनरुत्या प्रत्युत्तया स उक्तोऽपि नाचलच्छीलात् । श्रीः साक्षाद्भूयाभाषत-वत्स! तुभ्यं नमोवृत्तजपनतुष्टचक्रायाः सख्या वचनात् परीक्षितोऽसि, वरं वृणु। तेनोचे-नैःस्व्यं निर्गमय । देव्योक्तम्-अद्य सन्ध्यां यावच्चनकाः क्रीत्वा कोष्ठिकासु स्थाप्याः प्रातः (ते) कनकीभविष्यन्ति । इत्युक्त्वाऽन्तरधत्त श्रीः । तेन सञ्चिताश्चनकाः। गृहमागतेन कोष्ठिकात्रयं भृतम् । विभाते स्वर्णमया बभूवुः । स स्थालं भृत्वा वृद्ध भीमदेवराजस्य प्राभृतीचक्रे । विस्मितेन राज्ञा पृष्टः-किमर्थं कनकच. नकघटनम् ? । चनिकोऽवोचत् श्रीवरदानादिप्रबन्धम् । राज्ञा तत् तस्य प्रसादीकृतम् । सौधार्थ भूर्लब्धा । नव्यं गृहं कारितं चक्रायुतश्रीयुगादीशप्रासादश्च । लक्ष्मीप्रासादोऽप्युद्धृतः । क्रमेण तीर्थयात्रामसूत्रयत् । नित्यं त्यागभोगयुतः सुखभाजनमभूचनिका श्रेष्ठिमुख्यः॥
॥ इति सप्तदशी कथा ॥ मे० वृ०-सर्वदेवस्वरूपत्वं व्याख्याय भगवतो नमस्कारं कुर्वन् निर्णयमुद्घोषयति-(तुभ्यमित्यादि)।
हे नाथ ! तुभ्यं नमः । अस्त्विति शेषः । 'अस्तु' इति क्रिया० । किं कर्तृ? 'नमः' प्रणामः। कस्मै? 'तुभ्यं' भवते । नमःशब्दयोगे चतुर्थी । किंलक्षणाय तुभ्यं ? 'त्रिभुवनातिहराय' त्रिजगतः पीडानिवारकाय, बाह्या-रोगादयः आन्तरा:-क्रमोद्भवाः पीडास्तासां तव नाम्ना विनाशात् । पुनः हे नाथ! तुभ्यं नमः । किंविशिष्टाय तुभ्यम् ? 'क्षितितलामलभूषणाय' भूलोकालङ्करणाय । पुनः हे नाथ! तुभ्यं नमः । किंविशिष्टाय ? 'त्रिजगतः परमेश्वराय' त्रैलोक्यनायकाय । पुनः हे जिन! तुभ्यं नमः । कथंभूताय ? 'भवोदधिशोषणाय' संसारसागरलाघवकारकाय । एतद्विशेषणचतुष्टयेन अर्हतोऽसाधारणधर्मरूपं लक्षणं निवेदितं, परमताङ्गीकृतदेवेषु तथास्वरूपाभावात् ॥
समासा यथा-त्रयाणां भुवनानां समाहारः त्रिभुवनं, पात्रादित्वान्न ईप् , त्रिभुवनस्य आर्तिस्त्रिभुवनार्तिस्तां हरतीति त्रिभुवनार्तिहरस्तस्मै । क्षितेस्तलं क्षितितलं, अमलं च तद् भूपणं च अमलभूपणं, क्षितितले अमलभूषणमिव क्षितितलामलभूषणं तस्मै । 'सिंहाद्यैः पूजायाम्' (अ० ३, पा० १, सू० ८९) इति हैमवचनात् तत्पुरुषः । त्रयाणां जगतां समाहार स्त्रिजगत् , द्विगुः (तस्य ) । परमश्वासावीश्वरश्च परमेश्वरस्तस्मै । उदधिरिव उदधिः, भवश्वासौ उदधिश्च भवोदधिः, उपमितिसमासः, 'उपमेयं व्याघ्राद्यैः' (अ० ३, पा० १, सू० १०२) इति हैमवचनात् । भवोदधेः शोषणं यस्मात् स भवोदधिशोषणः, तस्मै ॥ इति काव्यार्थः ॥ २६ ॥
१'रुक्तिप्रत्युः' इति क-ग-पाठः। २ 'गृहागतेन' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org