________________
५०
कथा यथा
भक्तामर स्तोत्रम्
रामचन्द्रोपदेशेन, लक्ष्मणः संस्मरन् स्तवम् । निशायां शशिनं पश्यं - स्तुष्टाऽभूच्चक्रवाहिनी ॥ १ ॥ - अनु०
श्रीविशालायां विशालायां पुरि लक्ष्मणो नाम वणिगासीत् । स श्रीरामचन्द्रसूरिगुरुमुखाद् भक्तामर स्तवं साम्नायमपाठीत्, अजपच्च । शुचेरेकचित्तस्य दिनान्तस्त्रिः परिवर्त यतस्तस्याग्रे एकोनविंशवृत्तजापावसरे निशि चक्राऽऽविरभूत् । चन्द्रमण्डलं ददर्श । तुष्टा देवी प्राह स्म - यत्र महान्धकारे स्तवं स्मर्ताऽसि तत्र त्वं चन्द्रं द्रक्ष्यसि । वाञ्छिताप्तिर्भवित्रीत्युक्त्वा तिरोहिता चक्रेश्वरी (ग्रं० ६०० ) ॥
एकदा मालवेशो राजा महीधरनामा सीमालजयनाय गतः कान्तारं प्रविष्टः । तत्र प्रदेशे महान्धकारं दृष्ट्वा सैन्यस्य यामिनीगमने दुरवस्थां विचिन्त्य प्रभावनाचिकीः सहागतो लक्ष्मणो भूपं न्यगदत् - देव ! सम्पूर्ण चन्द्रं दर्शयामि, दिनसमां यामिनीं कारयामि सैनिकानाम् । राज्ञोक्तम् - कुरु, दत्स्व जलं मह्यं तव वाञ्छितमहं दातेति श्रुत्वा स्तवं स्मृत्वा प्रकटितश्चन्द्रः । प्रातर्गतमचिन्तितं वैरिराजपुरं बलम् । बद्धो रिपुः । राज्ञा पुरमात्मसात्कृतम् । लक्ष्मणः सकललक्ष्मीपतीकृतश्च । स स्तवमहिमानमवादीत् । गुरुपार्श्वे लक्ष्मणो राजानं धर्ममश्रावयत्
"जैनो धर्मः प्रकटविभवः सङ्गतिः साधुलोके
विगोष्ठी वचनपटुता कौशलं सत्कलासु ।
सांध्वी लक्ष्मीश्चरणकमलोपासना सद्गुरूणां
शुद्धं शीलं मतिरमलिना प्राप्यते नाल्पपुण्यैः ॥ १ ॥" - मैन्दाकान्ता देवगुरुधर्मरूपं रत्नत्रयं श्रुत्वा जिनधर्मभागभूत् महीधर महीशः । लक्ष्मणो लक्ष्मीवान् सर्वार्चनीयोऽभूत् । उक्तं च
Jain Education International
" महिमानं महीयांसं, सङ्गः सूते महात्मनाम् । मन्दाकिनीमृदो वन्द्या - स्त्रिवेदी वेदिनामपि ॥ १ ॥ " - अनु०
॥ इत्येकादशी कथा ॥ ११ ॥
१ 'पूर्णचन्द्र' इति ख- पाठः । २ 'पासनं' इति ख- पाठः ।
३ मन्दाक्रान्ता-लक्षणम् -
" मन्दाक्रान्ताऽम्बुधिरसनगैर्मो भनौ तौ
'गयुग्मम्
יין
For Private & Personal Use Only
www.jainelibrary.org