________________
. भक्तामरस्तोत्रम् गु० वि०-हे त्रिभुवनभवनकदीप! त्वं अपरः-अपूर्वो दीप:-कजलध्वजोऽसि-वर्तसे । यतो दीपो धूमवान् सवर्तिस्तैलेनोइयोतको गृहमात्रप्रकाशो वातेन विध्याता चैकस्थानस्थः स्यात् । त्वमपूर्वदीपः । किंभूतः ? नितरां गते निर्गते धूमवर्ती यस्मादसौ निधूमवर्तिः। धूमो द्वेषः, वर्तिः कामदशाश्चेति । अपवर्जितः-त्यक्तस्तैलपूरो येन स तैलपूरः-स्नेहप्रकारः। अन्यच्च त्वं कृत्स्नं-सम्पूर्ण पञ्चास्तिकायात्मकं जगत्रयं-विश्वत्रयमिदं-प्रत्यक्षगतं प्रकटीकरोषि-केवलोहयोतेन प्रकाशयसि । (ग्रं० ५००) अन्यत् त्वं जातु-कदाचित् चलिताचलानां-धुतगिरीणां मरुतां-वातानां न गम्यो-नवशः । अथवा परीषहोपसर्गेषु चलि. ताचलानां-कम्पितपृथ्वीकानां मरुतां-देवानां न गम्यो-नाकलनीयः। जगत्प्रकाशो-जगद्विश्रुतः। अथवा जगच्चरिष्णुः-सर्वत्र प्रसारी प्रकाशो-ज्ञानालोको यस्य सः, अत एवापरःअन्यो दीपस्त्वम् । इति वृत्तार्थः ॥ १६॥
अत्र मन्त्रः
ॐ ही पूर्वकं बीयबुद्धीणं कुतुबुद्धीणं सम्भिन्नसोआणं अक्खीणमहाणसीणं सबलद्धीणं नमः स्वाहा । श्रीसम्पादिनी विद्याऽत्र वृत्ते ज्ञेया॥ मे० वृक्ष-अथ रागपराजयं उक्त्वा द्वेषपराजयमाह (-निधूमेत्यादि)
हे नाथ ! त्वं अपरः दीपः असि इति अन्वयः । 'असि' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । किंविशिष्टस्त्वम् ? दीपः' । किंविशिष्टो दीपः ? 'अपरः' अपूर्वः-अन्यदीपेभ्यो विसदृशधर्मा । कथमित्याहकिंवि० त्वम् ? 'निर्धूमवर्तिः' धूमः-कार्ये कारणोपचाराद् धूमहेतुः अग्निः, स च बाह्यो वह्निः, आन्तरः क्रोधः, अग्निर्माणवक इति प्रतीते:, क्रोधितस्य मुखेऽपि श्यामलिकादेर्दर्शनाच्च, अत एव तेजोलेश्यावतां मुखाद् धूमनिर्गमोऽप्यागमे गीयते, वर्तयः-कामदशा दश कामशास्त्रप्रसिद्धाः
अभिलाष १ चिन्ता २ स्मरणे ३ गुणकीर्तनं ४ तथोद्वेगः ५।.
प्रलपन ६ भुन्मादो ७ रुग् ८ जडता ९ मृत्यु १० स्मरदशा १० स्ताः ।। १॥ तद्रहितः । पुनः किंवि० त्वम् ? 'अपवर्जिततैलपूरः' तैलं चात्र स्नेहः, "तैलं स्नेहोऽभ्य जनं च" (का० ३, श्लो० ८१) इति हेमसूरयः, स्नेहश्चात्राध्यात्मिकः पितृमातृभ्रात्रादिषु सांसारिकोऽनुरागस्तस्य पूरः-समूहस्तद्रहितः । पुनर्हे नाथ ! त्वं कृत्स्नं जगत्रयं इदं प्रकटीकरोषि इत्यन्वयः । प्रकटीकरोषि' इति क्रियापदम् । प्रकाशयसीत्यर्थः । कः कर्ता? 'त्वम्' । किं कार्यम् ? 'जगत्रयं त्रिभुवनं-- ऊर्ध्वाधस्तिर्यग्लोकलक्षणम् । किं० जगत्रयम् ? 'कृत्स्नं सकलम् । पुनः किं० जगत्रयम् ? 'इदं' प्रत्यक्षम् । तथा पुनर्हे नाथ! त्वं जातु-कदाचित् मरुतां न गम्योऽसि । 'असि' इति क्रियापदम् । कः कर्ता ? 'त्वम्' । किंविशिष्टस्त्वम् ? 'गम्यो न' न आक्रमणीयः-पराभवनीयः । केषाम् ? 'मरुतां' दुष्टोपसगंकारिदेवानाम् । किं० मरुताम् ? 'चलिताचलानां' कम्पितगिरीणां, बलवतामित्याशयः। लोकप्रसिद्धो . 'पूर्व' इति क-पाठः । २. 'याणं' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org