________________
१५
श्रीमानतुझसूरिविरचितम् मुखं मुखं वर्तते ? क्व निशाकरस्य-चन्द्रस्य बिम्ब-मण्डलं विद्यते ? यत् त्वन्मुखस्येन्दोः साम्यमुच्यते तत्र महदन्तरालं पश्यामः। किंभूतं वत्रम् ? सुरनरोरगाणां नेत्राणि हतु शीलमस्येति विग्रहः। उरगा-भवनवासिनःनिःशेषेण-सामस्त्येन निःशेषाणि (वा) कमलदर्पणचन्द्रादीनि सर्वाणि निर्जितानि-तर्जितानि जगत्रितयस्योपमानानि येन । तच्च चन्द्रबिम्बं किंभूतम् ! 'कलङ्कमलिनं' मृगशशगुरुशापलाञ्छनकश्मलम् । यत् चन्द्रबिम्ब वासरे-दिने पाण्डुपलाशकल्पं-जीर्णपक्कपाण्डुरवर्णसवर्ण भवति ।मुखस्य तेनोपमा कथं घटते । इतिवृत्तार्थः॥१३॥ मन्त्राश्चात्र
ॐ ह्रीं पूर्व आमोसहिलद्धीणं विप्पोसहिल० खेलोसहिल जल्लोसहिल० सवोसहिल० नमः स्वाहा । रोगापहारिणी विद्या॥
मे०वृ०-अथ भगवद्रूपैकदेशेनापि उपमानामसाम्यमाह-(वक्रमित्यादि)
द्वौ कशब्दौ महदन्तरं सूचयतः । हे नाथ! ते-तव वक्रं-मुखं क? च-पुनः तत् निशाकरस्य बिम्ब क वर्तते ? इत्यन्वयः । अनयोः सर्वथा सामान्यं लौकिकप्रतिपादितं युक्त्या न घटते एवेति वाक्यार्थः । 'वर्तते' इति क्रियापदम् । किं कर्तृ ? 'व' वदनम् । कस्य ? 'ते' तव । किंविशिष्टं वकम् ? 'सुरनरोरगनेत्रहारि' सुरा-देवा नरा-मनुष्या उरगा-नागकुमारा देवाः, उपलक्षणाद् भवनपति-व्यन्तर-ज्योतिष्कादयः, तेषां नेत्राणि-नयनानि हरति-आक्षिपति-रजयतीत्येवंशीलम् । पुनः किंवि० वक्रम् ? 'निःशेषनिर्जितजगत्रितयोपमान' वक्रस्य उपमानानि कमल-चन्द्र-दर्पणादीनि सर्वाणि तानि निर्जितानि-अवगणितानि, तेभ्योऽधिकशोभाकारित्वात् । द्वितीयान्वयेऽपि 'वर्तते' (इति) क्रियापदम् । किं कर्तृ ? 'बिम्ब' मण्डलम् । कस्य ? 'निशाकरस्य' चन्द्रस्य । किंवि० बिम्बम् ? 'कलकमलिनं' श्यामतारूपदूषितम् । तदिति किं तत् ? बिम्बं वासरे पाण्डुपलाशकल्पं भवतीत्यन्वयः। 'भवति' इति क्रियापदम् । किं कर्तृ ? 'बिम्बम्'। किंवि० बिम्बम् ? 'पाण्डुपलाशकल्प' जीर्णपत्रतुल्यम् । कदा ? 'वासरे' दिवसे ॥
अथ समासाः-सुराश्च नराश्च उरगाश्च सुरनरोरगाः, सुरनरोरगाणां नेत्राणि सुरनरोरगनेत्राणि, तानि हरतीति सुरनरोरगनेत्रहारि । अत्र उद्गीर्ण-यष्टि-उपलादिशब्दवत् हृधातोरपि मनोहरेत्यादौ अर्थविशेषप्रत्यायकत्वेन औदार्यगुणकारित्वान्न दुष्टता । त्रयोऽवयवा अस्य त्रितयं, जगतस्त्रितयं जगत्रितयं, जगत्रितये उपमानानि जगत्रितयोपमानानि, निर्गतं शेषादिति निःशेषं तत्पुरुषः, निःशेषं निर्जितानि जगत्रितयोपमानानि येन तन्निःशेषनिर्जितजगत्रितयोपमानम् । कलङ्केन मलिनं कलङ्कम. लिनम् । कलङ्केतिपदं दोषाभिप्रायसूचकम् । निशां करोतीति निशाकरः, 'संख्याह' इत्यादि सिद्धहेम(अ०५, पा० १, सू० १०२)सूत्रात् टप्रत्ययः, तस्य निशाकरस्य । पाण्डु च तत् पलाशं च पाण्डुपलाशं, ईषद्-असमाप्तं पाण्डुपलाशं पाण्डुपलाशकल्पम् । ईषदसमाप्तौ कल्पप्रत्ययः । "पलाशं छदनं बई पत्रं" (अमि० का० ४ श्लो० १८९) इति हेमसूरयः ॥ इति त्रयोदशकाव्यार्थः ॥ १३ ॥
भाविनः' इति क-पाठः।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org