________________
भक्तामरस्तोत्रम् कूपिकां प्रवेशितः। योगी तद्दत्तं रसभृतं तुम्ब जग्राह । केशवः सरजुरधो मुक्तः कथमपि कूपमेखलायां स्थितः स्तवं सस्मार । चक्रादेव्या पृष्ठे कृत्वा निष्कासितः। 'निःस्वस्य रत्नाष्टकं वितीर्णम् । सार्थेन साकं व्रजन् कान्तारे समुत्थितां भिल्लधाटी निर्घाटयामास स्तवस्म: रणात् । एकाकिने निर्जले वने भ्रमते तृषितायाष्टमनवमवृत्तगुणनप्रान्ते देव्योदकं दत्तम् । एवं सर्वाणि कष्टानि हत्वा पुरं प्राप । उक्तं च
"वने रणे शत्रुजलाग्निमध्ये ___ महार्णवे पर्वतमस्तके वा।
सुप्तं प्रमत्तं विषमस्थितं वा
__रक्षन्ति पुण्यानि पुराकृतानि ॥१॥"-उपजातिः रत्नाष्टकेन श्रीर्जाता । चक्रेश्वरीपााल्लोकचमत्कारकृते एकदिनेन जैनप्रासादं कारयामास । केशवश्चिरं सुखमभुनक्, धर्ममाराधयामास ॥
॥इति चतुर्थी कथा ॥४॥ मे० वृ०-अथ संस्तवनस्य अतिशयालुमाहात्म्यमाह-(आस्तां तवेत्यादि) ___ हे नाथ ! तव स्तवनं दूरे आस्तां इत्यन्वयः । 'आस्ताम्' इति क्रियापदम् । तिष्ठत्वित्यर्थः । किं कर्तृ ? 'स्तवनम्' । कस्य? 'तव' भवतः । कस्मिन् ? 'दूरे' दूरस्थले, स्तवनस्याधिकमहिमत्वात् । किन्तु त्वत्संकथाऽपि त्वत्पूर्वभवादिमूलप्रथमानुयोगागमोऽपि-त्वद्वार्ताऽपि वा जगताम्-आधारे आधेयोपचारात् जगन्निवासिलोकानां दुरितानि-पापानि हन्ति इति वाक्यम् । 'हन्ति' इति क्रियापदम् । का की ? 'त्वत्संकथा' । कानि कर्मतापन्नानि ? 'दुरितानि' ।
_ "अथाऽशुभम् । दुष्कृतं दुरितं पाप-मेनः पाप्मा च पातकम् ॥ किल्बिषं कलुषं किण्वं, कल्मषं वृजिनं तमः ।
अंहः कल्कम, पङ्कः"-(अभि० का० ६, श्लो० १६,१७) इति हेमसूरयः । किंवि० स्तवनम् ? 'अस्तसमस्तदोष' निरस्तसर्वदूषणम् । अत्र दृष्टान्तमाहसहस्रकिरणो दूरे आस्ताम् । 'आस्ताम्' इति क्रियापदम् । कः कर्ता ? 'सहस्रकिरणः सूर्यः । किन्तु प्रभैव-प्रभातकान्तिरेव पद्माकरेषु-तडागेषु जलजानि-पद्मानि विकाशयति-विकाशीकुरुते इति क्रियासम्बन्धः । 'कुरुते' इति क्रियापदम् । का कर्जी ? 'प्रभा' । कानि कर्मतापन्नानि ? 'जलजानि' । कथंभूतानि ? 'विकाशभाजि' विकखराणि ॥
समासाश्च-समस्ताश्च ते दोषाश्च समस्तदोषाः, अस्ताः समस्तदोषा येन तद् अस्तसमस्तदोषम् । तव संकथा त्वत्संकथा। सहस्रं किरणा यस्य स सहस्रकिरणः। पद्मानां आकराः पद्माकराः, तेषु पद्माकरेषु । जले जातानि जलजानि, डप्रत्ययः । विकाशं भजन्तीति विकाशभाजि ॥ इति नवमकाव्यार्थः ॥९॥ , निर्धनस्य। २ 'एकदिने जैन०' इति ख-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org