SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ प्रबन्धचिन्तामणिः । [द्वितीयः द्भिर्मण्डपपद्मशिलातलमपनीय तन्मार्गेण निर्गत्य तं गोलकं भित्त्वा तेष्वक्षरेषु तमेवनिर्गमनिर्णयं वाचयंस्तत्कौतुकोत्तालचित्तः श्रीजिनशासनमेव प्रशशंस । तथाहि५५) द्वाभ्यां यन्न हरिस्त्रिभिन च हरः स्रष्टा न चैवाष्टभि यन्न द्वादशभिर्गुहो न दशकद्वन्द्वेन लङ्कापतिः। पन्नेन्द्रो दशभि. शतैर्न जनता नेत्रैरसंख्यैरपि तत्पज्ञानयनेन पश्यति बुधश्चैकेन वस्तु स्फुटम् ॥' २२ अथ धनपालः ऋषभपञ्चाशिकास्तुतिं निर्माय, सरस्वतीकण्ठाभरणप्रासादे स्वनिर्मितप्रशस्तिपट्टिका राजे कदाचिद्दर्शयामास तत्र । १ मु. जि. F आदर्शऽत्र निम्नलिखितमधिकं कथनमुपलभ्यतेअन्यदा जलाश्रयपृच्छा सत्यं वप्रेषु शीतं शशिकरधवलं वारि पीत्वा प्रकामं व्युच्छिन्ना शेषतृष्णा प्रमुदितमनसः प्राणिसार्थी भवन्ति । शोषं नीते जलौघे दिनकरकिरणैर्यान्त्यनन्ता विनाशं तेनोदासीनभावं भजति मुनिगणः कूपवप्रादिकार्ये ॥ कदाचित् स्वकारितप्रौढतरनवसरसि गतो नृपः, कीगिदं धर्मस्थानमिति पृच्छति । धनपाल: प्राह एषा तटाकमिषतावकदानशाला मत्स्यादयो रसवती प्रगुणा सदैव । पात्राणि यत्र बकसारसचक्रवाकाः पुण्यं कियद् भवति तत्तु वयं न विद्मः ॥ तथातश्चकोप । पुरमागच्छन् मार्गे बालिकासहितां वृद्धां जरया शिरो धूनयन्ती दृष्टा नृपः पृच्छति-किं शिरो धूनयति । ततो धनपाल: किं नन्दी किं मुरारिः किमु रतिरमणः किं विधुः किं विधाता किं वा विद्याधरोऽसौ किमुत सुरपतिः किं नलः किं कुबेरः । नायं नायं न चायं न खलु नहि न वा नापि नासौ न चासौ क्रीडां कर्तुं प्रवृत्तः स्वयमपि च हुले भूपतिर्भोजदेवः ॥ अनेन नृपं रुष्टं तोषयामास। १ धनपालरचिता ऋषभपश्चाशिका अद्याप्युपलभ्यते ३ पहिकायांकदाविन्नृपः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy