SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ प्रकाशः भोजभीमप्रबन्धाः। ५२) नाहं स्वर्गफलोपभोगतृषितो नाभ्यर्थितस्त्वं मया संतुष्टस्तृणभक्षणेन सततं साधो न युक्तं तव । स्वर्ग यान्ति यदि त्वया विनिहता यज्ञे ध्रुवं प्राणिनो यज्ञं किं न करोषि मातृपितृभिः पुत्रैस्तथा बान्धवैः ।। इति तद्वाक्यानन्तरं राज्ञा किमेतदिति भूयोऽभियुक्तः५३) यूपं कृत्वा पशून्हत्वा कृत्वा रुधिरकर्दमम् ।। यद्येवं गम्यते स्वर्गे नरके केन गम्यते ॥ १ ॥ ५४) सत्यं यूपं तपो ह्यमिः कर्माणि समिधो मम । __ अहिंसामाहुतिं दद्यादेवं यज्ञः सतां मतः ॥ २ ॥ इत्यादि शुकसंवादोदितानि वचांसि नरेन्द्रस्य पुरतः पठन् हिंसाशास्त्रोपदेशिनो हिंसकप्रकृतीन्ब्राह्मणरूपेण राक्षसांस्ताज्ञापयन्नृपमहद्धमाभिमुखं चकार ॥ २१ अथ कस्मिन्नप्यवसरे नरेश्वरः सरस्वतीकण्ठाभरणप्रासादे व्रज. न्सदा सर्वज्ञशासनप्रशंसापरं पण्डितं धनपालमालपत् । सर्वज्ञस्तावत्कदाचिदासीत्तद्दर्शने साम्प्रतं कश्चिज्ज्ञानातिशयोऽस्तीत्यभिहिते, अर्हत्कृतेऽर्ह . च्चूडामणिग्रन्थे विश्वत्रयस्य त्रिकालवस्तुविषयस्वरूपपरिज्ञानमद्यापि विद्यत इति तेनोक्त, त्रिद्वारमण्डपे स्थितः कस्मिन्द्वारेऽस्माकं निर्गम इति शास्त्रकलकारोपणोद्यते नृपे बुद्धिमात्रा त्रयोदशीति पाठं सत्यापयता भूर्जपत्रे नृपप्रश्ननिर्णयमालिख्य मृण्मयगोलके निधाय च छगिकाधरस्य तं समर्प्य देव पादोऽवधार्यतामिति नृपं प्राह । नृपस्तद्बुद्धिसंकटे निपतितं स्वं मन्यमान एतद्द्वारत्रयस्य मध्यात्किमपि निर्णीतं भविष्यतीति विमृश्य सूत्रभृ T पद्यमिदं प्रभावकचरिते महेन्द्रसूरिप्रबन्धे (१३८) ऽप्यस्ति १ प्राणाः समिधयो C२ एष यज्ञः सनातन: B K ३ श्रुतिसंवाद. BH ४ अर्हन्तधीचूडामणिनामनि d ५ निर्णयस्तु बुद्धिमात्रगम्य इति लोकोक्तिं, तत्स्थानेऽधुना सर्वसिद्धा त्रयोदशीति ज्योतिर्विदः । इति प्रथमसंस्कर्ता ६ नृपस्तु बुद्धि K Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003006
Book TitlePrabandh Chintamani
Original Sutra AuthorMerutungacharya
AuthorDurgashankar K Shastri
PublisherFarbas Gujarati Sabha
Publication Year1932
Total Pages258
LanguageSanskrit
ClassificationBook_Devnagari & History
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy